________________
२]
द्वितीयो रागविवेकाध्यायः
भैरवी
१०७
धांशन्यासग्रहा तारमन्द्रगान्धारशोभिता ॥ १४० ॥ भैरवी भैरवोपाङ्ग समशेषखरा भवेत् । इति भैरवी ।
सिंहलीकामोदा
कामोदोपाङ्गमाख्याता कामोदा सिंहली बुधैः ॥ कामोदलक्षणोपेता ममन्द्रा कम्प्रधैवता । इति सिंहलीकामोदा |
छायानट्टा
छायानट्टा तु नहैव मन्द्रपञ्चमभूषिता ॥ १४२ ॥ नोपानं निषादेन गान्धारेण च कम्पिता । इति छायाना ।
कोलाहला
कोलाहला टक्कभाषा सग्रहांशा पवर्जिता ॥ १४३ ॥ समन्द्रा मभूयिष्ठा कलहे गमकान्विता ।
सासा सासा मासा सास सरी गामा मामगरी सरीरीध मारीगरी धममग मामारीधा साधासागा रीमा
न्यासा । छायावेलावली लक्षयति- वेलावलीवदिति । कम्प्रमन्द्रमेति । कम्पितो मन्द्रश्च मध्यमो यस्याम् ॥ १३७ - १३९ ॥
(सं०) भैरव लक्षयति-धांशेति । धैवतांशन्यासग्रहा तारमन्द्रगान्धारा । शेषा: : स्वरा: ; धैवतगान्धाराभ्यामन्ये । कोलाहलां लक्षयति - कोलाहलेति । षड्जग्रहांशा । पञ्चमवर्जिता । मन्द्रषड्जधैवता । मध्यम बहुला । गमकाः प्रकीर्णकाध्याये लक्षयिष्यन्ते ॥ १४०-१४४ ॥
Scanned by Gitarth Ganga Research Institute