________________
संगीतरत्नाकरः
[प्रकरणम् द्राविडगुर्जरी रिमन्द्रतारा स्फुरिता हर्षे द्राविडगुर्जरी । इति द्राविडगुर्जरी । इति गुर्जर्युपाङ्गानि ।
भुच्छी मत्यक्तान्दोलितसपा धन्यासांशग्रहान्विता॥१३७॥ विप्रलम्भे भवेद्भुच्छीत्यवोचत् सोढलात्मजः।
इति भुच्छी।
खम्भाइतिः मध्यमेन निषादेनान्दोलिता त्यक्तपञ्चमा ॥ १३८ ॥ खम्भाइतिस्तदंशान्ता शृङ्गारे विनियुज्यते ।
इति खम्भाइतिः।
छायावेलावली छायावेलावली वेलावलीवत् कम्प्रमन्द्रमा ॥ १३९॥
इति छायावेलावली।
प्रतापवेलावली सैव प्रतापपूर्वा स्यादाहता रिपवर्जिता।
इति प्रतापवेलावली । इति वेलावल्युपाङ्गानि । दक्षिणगुर्जरी लक्षयति-दक्षिणेति । ताडिता इतरे मध्यमादन्ये स्वरा यस्याम् ॥ १३५-१३६ ॥
(सं०) भुच्छी लक्षयति-मत्यक्तेति । मध्यमहीना । आन्दोलितषड्जपञ्चमा। धैवतन्यासांशग्रहा । खम्भाइतिं लक्षयति-मध्यमेनेति । मध्यमेन निषादेन आन्दोलितेन युक्ता । त्यक्तपञ्चमा पञ्चमहीना । तदंशान्ता निषादांश
Scanned by Gitarth Ganga Research Institute