________________
१०४ संगीतरत्नाकरः
[प्रकरणम् द्राविडी वराटी वराटी द्राविडी भूरिनिमन्द्रा स्फुरितर्षभा।
इति द्राविडी वराटी।
सैन्धवी वराटी वराटी सैन्धवी भूरिगान्धारा सधकम्पिता ॥१३१॥ शाहदेवेन गदिता शृङ्गारे मन्द्रमध्यमा।
इति सैन्धवी वराटी।
___ अपस्थानवराटी मण्डिता मनिधैर्मन्द्ररपस्थानवराटिका ।। १३२ ॥
इत्यपस्थानवराटी।
हतस्वरवराटी हतस्वरा धमन्द्रा कम्प्रपसा हतपश्चमा।
इति हतस्वरवराटी।
प्रतापवराटी स्यात् प्रतापवराटी तुधमन्द्रा कम्प्रसोरुपा ॥१३३ ॥
इति प्रतापवराटी । इति वराटथुपाङ्गानि ।
द्राविडीवराटी लक्षयति-वराटीति । भूरिनिमन्द्रा मन्द्रनिषादबहुला । फुरितर्षभा स्फुरितः ऋषभो यस्याम् । सैन्धवीवराटी लक्षयति-वराटीति । भूरिगान्धारा गान्धारबहुला । सधकम्पिता कम्पितषड्जधैवता। अपस्थानवराटी लक्षयति-मण्डितेति । मनिधैर्मध्यमनिषादधैवतैर्मन्नैर्मण्डिता। हतस्वरवराटी लक्षयति-हतस्वरेति । धमन्द्रा मन्द्रधैवता । कम्प्रपसा कम्पितपञ्चमषड्जा। प्रतापवरादी लक्षयति-स्यादिति । उरुपा पञ्चमबहुला ॥ १३०-१३३ ॥
Scanned by Gitarth Ganga Research Institute