________________
द्वितीयो रागविवेकाध्यायः रिषड्जाभ्यधिका धीरैरेषा रामकृतिर्मता ॥ १२७ ॥
इति रामकृतिः।
गौडकृतिः षड्जांशग्रहणन्यासां मतारां मपभूयसीम् । रिधत्यक्ता पमन्द्रां च तज्ज्ञा गौडकृति जगुः ॥१२८॥
इति गौडकृतिः।
देवकृतिः निमन्द्रा मध्यमव्याप्ता रिपत्यक्ता समस्वरा । सन्यासांशा धग्रहा च वीरे देवकृतिर्भवेत् ॥१२९॥
इति देवकृतिः । इति क्रियाङ्गाणि ।।
कौन्तली वराटी स्युवराट्या उपाङ्गानि सन्यासांशग्रहाणि षट् । समन्द्रा कौन्तली तत्र निभूरिः कम्प्रधा रतौ ॥१३०॥
इति कौन्तली वराटी।
पञ्चमस्वरपर्यन्तं पञ्च स्वरास्तारा मन्द्राश्च । मध्या न भवन्ति । ऋषभषड्जबहुला। गौडकृति लक्षयति-षड्जांशेति । तारमध्यमा । मध्यमपञ्चमबहुला। ऋषभधैवतत्यक्ता । देवकृति लक्षयति-निमन्द्रेति । मन्द्रनिषादा । मध्यमव्याप्ता मध्यमबहुला । ऋषभपञ्चमत्यक्ता ॥ १२७-१२९ ॥
(सं०) वराट्या उपाङ्गानि विभजते-स्युरिति । कौन्तली वराटी लक्षयति -समन्द्रेति । मन्द्रषड्जा । निषादबहुला । कम्पितधैवता । रतौ विनियोगः ।
Scanned by Gitarth Ganga Research Institute