________________
१०२
संगीतरत्नाकरः
[प्रकरणम्
पिञ्जरी
हिन्दोले पिञ्जरी भाषा गांशा सान्ता निवर्जिता ॥
गागारि सा धारि सा सारी गां मां मामा रीरि साधासापामागापाधासारी गापामागारी सा सानि साधारीसासारीगासारी गागामामागारीसारी रि गरि रीस रिमां। पां धापासारि गामारि रीसा।
इति पिञ्जरी।
नट्टा तज्जा समस्वरा नहा तारगान्धारपञ्चमा। सन्यासांशग्रहा मन्द्रनिषादा तार धैवता ॥ १२५ ॥
इति नट्टा।
कर्णाटबङ्गालः अङ्गं कर्णाटबङ्गालं वेगरञ्ज्याः पवर्जितम् । गांशं सान्तं च शृङ्गारे वक्ति श्रीकरणेश्वरः॥१२६॥ इति कर्णाटबङ्गालः । इति भापाङ्गाणि ।
रामकृतिः आपञ्चमं तारमन्द्रा षड्जन्यासांशकग्रहा ।
(सं.) पिञ्जरी लक्षयति-हिन्दोल इति । गान्धारांशा । षड्जन्यासा । निषादवर्जिता । नट्टां लक्षयति-तज्जोत । कर्णाटबङ्गालं लक्षयति-अङ्गमिति । पञ्चमवर्जितम् । गान्धारांशम् । षड्जन्यासम् ॥ १२४-१२६ ॥
(सं०) रामकृतिं लक्षयति-आपञ्चममिति । एतस्यां षड्जमारभ्य
Scanned by Gitarth Ganga Research Institute