________________
संगीतरत्नाकरः
[प्रकरणम् गामधापामगा मगममध धनि निनि(षड्ज)सधध धनि पपपगगा मधा पा मधापा मधनि धाधानी साधधनि धमपप ममधगागा । मगमममधनि निनि(षड्ज)सधधनी निनि धमपपपगगामधा पामधापम धनिधा-इति रूपकम् ।
इति भोगवर्धनी।
वेलावली तजा वेलावली तारधा गमन्द्रा समस्वरा । धाद्यन्तांशा कम्प्रषड्जा विप्रलम्भे हरिप्रिया ।
इति वेलावली।
प्रथममञ्जरी पश्चमांशग्रहन्यासा धरितारा गमोत्कटा। गमन्द्रा चोत्सवे गेया तज्ज्ञैः प्रथममञ्जरी ॥११५॥
इति प्रथममञ्जरी।
बाङ्गाली धन्यासांशग्रहा भाषा बागाली भिन्नषड्जजा।
(सं.) भोगवर्धनी लक्षयति-विभाषेति । तारो मन्द्रश्च गान्धारो यस्याम् ; मध्यगान्धारशून्येत्यर्थः । गान्धारापन्यासा । धैवतनिषादगान्धारमध्यमपञ्चमबहुला । वेलावली लक्षयति-तज्जेति । तारधैवता । मन्द्रगान्धारा । धैवतग्रहन्यासांशा ॥ ११२-११४ ॥
(क०) प्रथममञ्जर्या लक्षणे-धरितारेति । धरी तारे यस्याः सा तथोक्ता । अत्र ग्रहत्वेनारब्धपञ्चमवशात् तारधैवतस्योक्तरीत्या बहुत्वमेव । तारऋषभस्य तु बहुत्वमवधित्वं चेत्यर्थः । एवमन्यत्राप्यूह्यम् ॥ ११५ ॥
(सं०) प्रथममञ्जरी लक्षयति-पञ्चमांशेति । तारऋषभधैवता । गान्धार
Scanned by Gitarth Ganga Research Institute