________________
२]
द्वितीयो रागविवेकाध्यायः
गन्ती
गेयः शरदि तज्जाता भवेद्भाषा रगन्तिका । धन्यासांशग्रहा भूरिधैवतैः स्फुरितैर्युता ॥ ११० ॥ अतारमध्यमा पापन्यासा श्रीशाङ्गिणोदिता ।
इति रगन्ती ।
सावरी
तद्भवा सावरी धान्ता गतारा मन्द्रमध्यमा ॥ १११ ॥ मग्रहांशा स्वल्पषड्जा करुणे पञ्चमोज्झिता । इति सावरी । भोगवर्धनी
विभाषा ककुभे भोगवर्धनी तारमन्द्रगा ॥ ११२ ॥ धैवतांशग्रहन्यासा गापन्यासा रिवर्जिता । धनिभ्यां गमपैर्भूरिर्वैराग्ये विनियुज्यते ॥ ११३ ॥
९५
धाधाधाध गामापा पप मम पापापम मा गा मानी धासनी गासनी । धा पामागामानीधा पामा धाधप मध पममधा धाधगापामागा मापापापपगा मपगमनी धासनी गासनी धापमा गामानीधाधा ।
धपमधपमधाधा
इत्यालापः ।
(सं०) रगतिकां लक्षयति - तज्जातेति । धैवतन्यासांशग्रहा । बहुभिः स्फुरितैधैवतैर्युक्ता । एतस्यां तारो मध्यमो नास्ति । पञ्चमापन्यासा । 1 सावरीं लक्षयति- तद्भवेति । धैवतन्यासा । तारगान्धारा । मध्यम ग्रहांशा ॥ ११० - ११२ ॥ 1 सावेरीं Bik.
Scanned by Gitarth Ganga Research Institute