________________
द्वितीयो रागविवेकाध्यायः ८. नी पा मा पम गा गा गा गा
नो प(घ) नु दे -इत्याक्षिप्तिका। इति गान्धारपञ्चमः । इति रागाङ्गानि ।
देशाख्या तज्जा स्फुरितगान्धारा देशाख्या वर्जितर्षभा॥१०॥ ग्रहांशन्यासगान्धारा निमन्द्रा च समखरा ।
इति देशाख्या।
त्रवणा
त्रवणा भिन्नषड्जस्य भाषा धनिसभूयसी ॥१०६॥ धनिसैर्वलिता धांशग्रहन्यासा रिपोज्झिता। गमद्विगुणिता मन्द्र धैवता विजये मता ।। १०७ ॥
(सं.) गान्धारपञ्चमं लक्षयति-गान्धारीति । हारिणाश्वा मध्यमग्रामे द्वितीया मूर्छना । देशाख्यां लक्षयति-तज्जेति । स्फुरितो गान्धारो यस्याम् । वर्जित ऋषभो यस्याम् । मन्द्रनिषादा ॥ १०३-१०६ ॥
___ (क०) भिन्नषड्जभाषायास्त्रवणाया लक्षणे--धनिसैर्वलितेति । वलितमिह वक्ष्यमाणलक्षणो गमकभेदः । तद्युक्तैर्धनिसैः प्रयुक्तेत्यर्थः । गमद्विगुणितेति । गमयोरत्र मध्यमापेक्षया द्विगुणत्वं विवक्षितं, मन्द्रापेक्षया मध्यस्थयोस्तयोः तारावधिप्रदर्शनार्थम् । ननूक्तसिद्धत्वादन गमयोर्बहुत्वविधानार्थमिति चेत् ; न; धनिसभूयसीति तदितरेषामेव पृथग्बहुत्वविधानात् । अतस्तारगान्धारमध्यमवतीत्यर्थः । “वाहिताम्यादिषु" इति परनिपातः । नन्वत्र तारावधित्वेनैकस्मिन्नेव स्वरे वक्तव्ये किं गमद्विगुणितेति स्वरद्वयग्रहणमिति चेत् ; सत्यम् ;
Scanned by Gitarth Ganga Research Institute