SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ - त्पत्ति: २] प्रथमः स्वरगताध्यायः दद्युर्गीतादिसंसिद्धिं षोडशं तद्विनाशकम् । दशमैकादशे पत्रे ललनायां तु सिद्धिदे || १४२ ।। नाशकं प्रथमं तुर्ये पञ्चमं च दलं विदुः । ब्रह्मरन्ध्रस्थितो जीवः सुधया संप्लुतो यथा ।। १४३ ॥ तुष्ट गीतादिकार्याणि सप्रकर्षाणि साधयेत् । एषां शेषेषु पत्रेषु चक्रेष्वन्येषु च स्थितः ॥ १४४ ॥ जीवो गीतादिसंसिद्धिं न कदाचिदवाप्नुयात् । आधाराद् द्व्यङ्गुलादूर्ध्व मेहनाद् द्वय गुलादधः || १४५ ॥ एकाङ्गुलं देहमध्यं तप्तजाम्बूनदप्रभम् । तत्रास्ते ऽग्निशिखा तन्वी चक्रात्तस्मान्नवाङ्गुले || १४६ ।। ५७ च संस्थितो जीवो गीतादेः सिद्धिमृच्छति गीतनृत्तवाद्यानां सिद्धिमाप्नोति, अथ वा तान्यभिलषति । चतुर्थषष्ठदशमदलेषु स्थिते जीवे गीतादि नश्यति । विशुद्धेरिति । विशुद्धिसंज्ञकस्य चक्रस्याष्टमादिष्वष्टसु दलेषु संस्थिते जीवे गीतादि सिध्यति । षोडशदलावस्थिते नश्यति । ललनाऽऽख्यचक्रस्य दलविशेषावस्थाने जीवस्य गीतादिसिद्ध्यसिद्धी कथयति - दशमेति । दशमं चैकादशं चेति द्वे पत्रे गीतादिसिद्धिदायके भवतः । प्रथमादीनि तु गीतादिनाशकानीति विदुर्यो - गशास्त्रविदः । ब्रह्मरन्ध्रावस्थानेन जीवस्य गीतादिसिद्धिं कथयति — ब्रह्मरन्ध्रेति । ब्रह्मरन्ध्रे तिष्टञ्जीवो ऽमृतप्लुत इव निर्वृति प्राप्तः संस्तुष्टो निरभिलाषो गीतादि साधयेन्निष्पादयेत् । एवं गीतादेः साधकानि नाशकानि च दलानि कथयित्वा साधारणानि कथयति - एषामिति । एषामनाहतविशुद्धिललनाऽऽख्यानां चक्राणां शेपेषु साधकनाशकेभ्यो ऽन्येषु पत्रेषु, अन्येषु चक्रेषु विशुद्धयादेरन्येषु मणिपूरकादिचक्रेषु च स्थितो जीवो गीतादिसिद्धावुदासीन इत्यर्थः ॥ १३३ - १४४ ॥ (क०) देहविधारकनाडीसंदोहमूलभूतस्य ब्रह्मग्रन्थेः स्थानं स्वरूपं चाह – आधाराद् द्व्यङ्गुलादिति । आधारादाधारचक्रादवधिभूतात् । 8 Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy