SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः [पिण्डोदेहस्य कंदो ऽस्त्युत्सेधायामाभ्यां चतुरगुलः । ब्रह्मग्रन्थिरिति प्रोक्तं तस्य नाम पुरातनैः ॥ १४७॥ तन्मध्ये नाभिचक्रं तु द्वादशारमवस्थितम् । लूतेव तन्तुजालस्था तत्र जीवो भ्रमत्ययम् ।। १४८ ॥ सुषुम्णया ब्रह्मरन्ध्रमारोहत्यवरोहति । जीवः प्राणसमारूढो रज्ज्वां कोहाटिको यथा ॥ १४९ ॥ सुषुम्णां परितो नाड्यः कंदादा ब्रह्मरन्ध्रतः । 'कंदीकृत्य स्थिताः कंदं शाखाभिस्तन्वते तनुम् ।। १५० ।। देहमध्यमिति । देहस्योर्ध्वाधोभागयोर्मध्ये स्थितत्वाद्देहमध्यम् । चक्रात्तस्मादिति । देहमध्यचक्रादवधेः । ब्रह्मग्रन्थिरिति । ब्रह्माधिष्ठितत्वाब्रह्मग्रन्थिः । तन्मध्ये ब्रह्मग्रन्थिमध्ये । नाभिचक्र द्वादशारं द्वादशाराणि यस्य तत्तथोक्तम् । आतानवितानात्मकनाडीसंघातरूपत्वान्नाभिचक्रस्य तन्तुजालं दृष्टान्तः । कंदीकृत्य, अकंदं कंदं कृत्वा । अभूततद्भावे चिः । ताश्च नाड्यः स्वशाखाभिः कंदीकृतं कंदं तनुं देहाकारं तन्वते ।। -१४५-१५०॥ (सु०) अग्निशिखास्थानं कथयति-आधारादिति । आधारचक्राद् द्वयङ्गुलमात्रमूर्ध्वप्रदेशे मेहनाल्लिङ्गस्थानाद् द्वयङ्गुलमात्रमधःप्रदेश एकागुलिप्रमाणं सुवर्णवर्ण देहमध्यं देहस्य मध्यप्रदेशः । तत्र तन्वी कृशा ऽग्निशिखा ऽऽस्ते । तस्माच्चक्रादेहमध्यादाधाराद्वा नवामुले नवाङगुलप्रमाणे । ब्रह्मपन्थि कथयति-देहस्येति । हेहस्य शरीरस्य कंदो विस्तारकारणम् | उत्सेधो दीर्घोच्छायः। नाभिस्थितश्चतरङगलप्रमाणकः । तस्य नाम ब्राग्रन्थिरिति । तन्मध्य इति । तस्य ब्रह्मग्रन्थेमध्ये नाभिचक्राख्यं चक्रं द्वादशदलमस्ति । लूतोर्णनाभः, तद्वज्जीवस्तत्र भ्रमति । सुषुम्णयेति । आ ऽऽधारादाब्रह्मरन्ध्रमायता क्रोडीकृत्य. Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy