SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ -त्पत्तिः २] प्रथमः स्वरगताध्याय: ताश्च भूरितरास्तासु मुख्याः प्रोक्ताश्चतुर्दश । सुषुम्णेडा पिङ्गला च कुहूरथ सरस्वती ॥ १५१ ।। गांधारी हस्तिजिढा च वारुणी च यशस्विनी । विश्वोदरा शङ्खिनी च ततः पूषा पयस्विनी ॥ १५२ ।। अलम्बुसेति तत्राद्यास्तिस्रो मुख्यतमा मताः । सुषुम्णा तिसृषु श्रेष्ठा वैष्णवी मुक्तिमार्गगा ॥ १५३ ॥ कंदमध्ये स्थिता तस्या इडा सव्ये ऽथ दक्षिणे । पिङ्गलेडापिङ्गलयोश्चरतश्चन्द्रभास्करो ॥ १५४ ।। क्रमात्कालगतेर्हेतू सुषुम्णा कालशोषिणी । नाडी सुषुम्णा। तया तस्य सकाशाद्ब्रह्मरन्ध्रपर्यन्तमारोहति ब्रह्मरन्ध्राच्चावरोहति । प्राणसमारूढः प्राणपवनेनोपश्लिष्ट: । कोह्लाटिको विषमनर्तकः । सुषुम्णां परितः सर्वत: सुषुम्णाया: कंदं ब्रह्मपन्धि क्रोडीकृत्य व्याप्य स्थिता नाडयस्तनुं शरीरं तन्वते विस्तारयन्ति ॥ -१४५-१५० ॥ (क०) कालगतेरिति । अत्र कालशब्देन जीवस्य पिण्डावस्थानिमित्तभूतास्तपनपरिस्पन्दक्षणा उच्यन्ते, त एवायुरिति यावत् ; तस्य गतेः क्षयस्येत्यर्थः । कालशोषिणीति । इह कालशब्देन मृत्युरुच्यते, तस्य शोषिणी प्रतिबन्धिनी ॥ १५१-१५५ ॥ (सु०) तासु नाडीषु मुख्याश्चतुर्दशेति कथयति-ताश्चेति .. १५०-॥ तासां नामानि कथयति-सुषुम्णेति । चतुर्दशानां मध्ये सुषुम्णेडापिङ्गलानां तिसृणां नाडीनां मुख्यत्वं तासु च सुषुम्णाया मुख्यत्वमाह-तत्राद्या इति । सुषुम्णाया मुख्यत्वे कारणमाह-वैष्णवीति । वैष्णवी विष्णुदेवताका। अथ वा, वैष्णवी या मायाशक्तिस्तद्रूपिणी । मुक्तिमार्गगा मोक्षप्रदायिनी । अथ वा, मुक्तिमार्गो मुक्तेरुपाय आत्मा, तत्संबन्धिनी, आत्मनो ऽधिष्ठानभूतेत्यर्थः । Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy