SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ६० संगीतरत्नाकरः [पिण्डोसरस्वती कुहूश्चास्ते सुषुम्णायास्तु पार्श्वयोः ॥ १५५ ॥ इडायाः पृष्ठपूर्वस्थे गांधारीहस्तिजिहिके । क्रमात्पूपायशस्विन्यौ पिङ्गलापृष्टपूर्वयोः ॥ १५६ ॥ विश्वोदरा मध्यदेशे स्यात्कुहूहस्तिजिह्वयोः । मध्ये कुहूयशस्विन्योर्वारुणी संस्थिता मता ॥ १५७ ॥ पूषासरस्वतीमध्यमधिशेते पयस्विनी । गांधारिकासरस्वत्योमध्ये वसति शहिनी ॥ १५८ ॥ अलम्बुसा कंदमध्ये तत्रेडापिङ्गले क्रमात् । सव्यदक्षिणनासाऽन्तं कुहूरामेहनं पुरः ।। १५९ ॥ कंदस्य ब्रह्मपन्थेमध्ये स्थिता । इडापिङ्गले तस्या वामदक्षिणतः स्थिते इत्यर्थः । तयोः प्रचरत: प्राणपवनस्य संज्ञाविशेषमाह-इडापिङ्गलयोरिति । वामनाडयनुसारी प्राणपवनश्चन्द्रः, दक्षिणनाडयनुसारी तु भास्कर इत्युच्यते । कथं प्राणपवनस्य चन्द्रत्वं भास्करत्वं चेत्यत आह-कालगतेर्हेतू इति । यथा चन्द्रसूर्यो कालज्ञानकारणे तथा तावपीत्यर्थः ॥ १५१-१५५ ॥ (क०) सर्वगा तु वारुणीति । अत्र वारुणीति नाडी तु सर्वगा सकलशरीरव्यापिनी ॥ लोकरञ्जनं भवभञ्जनमिति द्वे गेयविशेषणे ॥ -१५५-१६७- ॥ (सु०) सरस्वत्यादीनां नाडीनामवस्थानमाह–सरस्वतीति । सरस्वती सुषुम्णाया दक्षिणपार्श्वे तिष्ठति, कुहूर्वामपार्श्व ; गांधारीडायाः पश्चात्प्रदेशे, हस्तिजिहिका पूर्वप्रदेशे ; पूषा पिङ्गलायाः पृष्ठप्रदेशे, यशस्विनी पूर्वप्रदेशे; विश्वोदरा कुहूहस्तिजिह्वयोमध्ये ; वारुणी कुहूयशस्विन्योर्मध्ये । पयस्विनी पूषासरस्वत्योर्मध्यमधिशेते । 'अधिशीङ्स्थाऽऽसां कर्म' इति कर्मत्वम् । शङ्खिनी गांधारिकासरस्वत्योर्मध्ये तिष्ठति ; अलम्बुसा पूर्वोक्तस्य कंदस्य मध्ये । एतासां नाडीनां प्रमाणं कथयति-तत्रेति । इडा सव्यनासापर्यन्तम् ; पिङ्गला दक्षिण Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy