SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ -त्पत्तिः २] प्रथमः स्वग्गताध्यायः सरस्वत्यूर्ध्वमाजिढं गांधार्या पृष्ठतः स्थिता । आवामनेत्रमासव्यपादाङ्गुष्ठं तु संस्थिता ॥ १६० ॥ हस्तिजिह्वा सर्वगा तु वारुण्यथ यशस्विनी । आ ऽङ्गुष्ठादक्षिणाङघ्रिस्था देहे विश्वोदरा ऽखिले ॥ १६१ ॥ शङ्खिनी सव्यकर्णान्तं पूपा त्वा याम्यनेत्रतः । पयस्विनी तु वितता दक्षिणश्रवणावधि ॥ १६२ ॥ अलम्बुसा पायुमूलमवष्टभ्य व्यवस्थिता । एवंविधे तु देहे ऽस्मिन्मलसंचयसंटते ॥ १६३ ॥ प्रसाधयन्ति धीमन्तो भुक्तिं मुक्तिमुपायतः । तत्र स्यात्सगुणाद्धयानाद्भुक्तिर्मुक्तिस्तु निर्गुणात् ॥ १६४ ॥ ध्यानमेकाग्रचित्तैकसाध्यं न सुकरं नृणाम् । तस्मादत्र सुखोपायं श्रीमन्नादमनाहतम् ॥ १६५ ॥ गुरूपदिष्टमार्गेण मुनयः समुपासते ।। नासापर्यन्तम् ; कुहूर्मेहनपर्यन्तम् ; सरस्वत्यूर्ध्व जिह्वापर्यन्तम् ; गांधारी पृष्ठप्रदेशपर्यन्तम् ; हस्तिजिह्वा वामनेत्रादारभ्य वामपादाङ्गुष्ठपर्यन्तम् ; वारुणी सर्वप्रदेशे । यशस्विन्यपृष्ठादारभ्य दक्षिणाङ्घौ तिष्ठति ; अखिले देहे विश्वोदरा । शलिनी सव्यकर्णपर्यन्तम् । पूषा ऽऽ दक्षिणनेत्रतः । पयस्विनी दक्षिणकर्णपर्यन्तम् । अलम्बुसा पायुमूलं गुदमूलमवष्टभ्य स्थिता । पिण्डनिरूपणमुपसंहरति-एवंविध इति । भुक्तिमुक्तिश्च देह उपायात्सिध्यत इत्युक्तम् ; तयोरुपायं कथयति-तत्रेति । पूर्व सगुणोपासनोक्तिस्तु निर्गुणोपासनां प्रति तस्या हेतुत्वं सूचयितुम् । तथोक्तं वेदान्तकल्पतरौ-- 'निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्ते ऽनुकम्प्यन्ते सविशेषनिरूपणैः ॥' इति । सगुणनिर्गुणब्रह्मोपासनास्वसमर्था नादमुपासत इत्याह-ध्यानमिति । न सुकरम् , Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy