________________
६२
संगीतरत्नाकरः
सो sपि रक्तिविहीनत्वान्न मनोरञ्जको नृणाम् ॥ १६६ ॥ तस्मादाहतनादस्य श्रुत्यादिद्वारतो ऽखिलम् । गेयं वितन्वतो लोकरञ्जनं भवभञ्जनम् ॥ १६७ ॥ उत्पत्तिमभिधास्यामस्तथा श्रुत्यादिहेतुताम् ।
अथ तृतीयं नादस्थानश्रुतिस्वरजातिकुलदैवतर्षिच्छन्दोरस प्रकरणम्
चैतन्यं सर्वभूतानां विवृत्तं जगदात्मना । नादब्रह्म तदानन्दमद्वितीयमुपास्महे ॥ १ ॥
[नाद००
सुखेन कर्तुमशक्यम् । अनाहतो ऽपि नादो न जनमनोहर इत्याह-- सोऽपीति । पूर्वप्रकृतमुपसंहरन्नुत्तरत्राभिधेयं प्रतिजानीते - तस्मादिति । श्रुत्यादीत्यादिशब्देन स्वरग्राममूर्च्छनातानकूटतानादयो गृह्यन्ते ; तद्द्वारतो ऽखिलं गेयं गानक्रियायोग्यं जात्यादि वितन्वतो विस्तारयत माहतनादस्योत्पत्तिं श्रुत्यादिहेतुत्वं च वक्ष्याम इति संबन्ध: । लोकरञ्जनं भवभञ्जनमिति गेयस्य विशेषणद्वयं भुक्तिमुक्तिप्रदत्वं सूचयति ; अन्यथा सगुणनिर्गुणब्रह्मोपासनाऽनुकल्पत्वं नादोपासनाया नावकल्पेतेत्यर्थः ॥ - १५५ - १६७॥
इति प्रथमे स्वरगताध्याये द्वितीयं पिण्डोत्पत्ति प्रकरणम् ॥ २ ॥
(क०) शरीरं निरूप्य शारीरनादादिप्रकरणमारभमाणः श्रुत्यादिप्रपञ्चनिदानस्य नादस्य चैतन्यादिसाधर्म्येण ब्रह्मत्वं रूपयित्वा तस्य परदेवतात्वमनुसंधायोपास्ते--- चैतन्यमिति । सर्वभूतानां सकलप्राणिनां चैतन्यम् ।
Scanned by Gitarth Ganga Research Institute