SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ रसा: ३] प्रथमः स्वरगताध्यायः नादोपासनया देवा ब्रह्मविष्णुमहेश्वराः । भवन्त्युपासिता नूनं यस्मादेते तदात्मकाः ॥ २॥ नादो हि स्फोटात्मना समस्तपदार्थप्रकाशकत्वसाधम्र्येण चैतन्यारोपविषयत्वाचैतन्यम् । जगदात्मना परिदृश्यमानचराचरप्रपञ्चाकारेण विवृत्तमतत्त्वतो ऽन्यथाभूतम् , नादे श्रुतिवर्णादिसकलशब्दप्रपञ्चप्रतिभाससाधर्म्यण नामरूपोल्लिखितस्य जगतो ऽप्यधिष्ठानत्वारोपात् । आनन्दमभिव्यञ्जके ऽस्मिन्नभिव्यङ्गयानन्दरूपारोपात् । अद्वितीयं स्वकार्यस्वरादिप्रपञ्चकारणत्वरूपेण ब्रह्मसाधर्येणैकत्वारोपात् । तदिति सर्वलोकप्रसिद्धम् । नादब्रह्म, नाद एव ब्रह्मेत्यभेदप्राधान्य आरोपविषयभूतनादानपहवे चैतन्याद्यवयवयुक्तत्वेन समस्तवस्तुविषयं सावयवरूपकम् । उपास्मह इति ‘अस्मदो द्वयोश्च' इति बहुवचनोपपत्तिः । अयमभिसंधिः-परावावपर्यायस्य ब्रह्मशक्तेर्नादस्य ब्रह्मणो ऽत्यन्तप्रत्यासन्नत्वात्तदुपासनायां कृतायां ब्रह्मप्राप्तिर्मणिप्रभाप्रवृत्तस्य मणिलाभवद्भवेदिति । तथा चोक्तम् 'अतो गीतप्रपञ्चस्य श्रुत्यादेस्तत्त्वदर्शनात् । अपि स्यात्सच्चिदानन्दरूपिणः परमात्मनः ।। प्राप्तिः प्रभाप्रवृत्तस्य मणिलाभो यथा भवेत् । प्रत्यासन्नतया ऽत्यन्तम्' इति, वीणावादन-' इत्यादि च । ननूपासनस्य सगुणेषु प्रसिद्धदेवताऽन्तरेषु सत्स्वपि किमचेतनस्य नादस्य ब्रह्मत्वरूपेणोपासनमित्यत आह-नादोपासनयेति । तत्रोपपत्तिमाह-यस्मादेते तदात्मका इति । अत्र तदिति नादब्रह्म परामृश्यते । तस्मादभिन्ना यतो ऽत इत्यर्थः ॥ १, २ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy