________________
६४
संगीतरत्नाकरः
[नादस्थानआत्मा विवक्षमाणो ऽयं मनः प्रेरयते मनः। देहस्थं वह्निमाहन्ति स प्रेरयति मारुतम् ॥३॥ ब्रह्मग्रन्थिस्थितः सो ऽथ क्रमा पथे चरन् । नाभिहत्कण्ठमूर्धास्येष्वाविर्भावयति ध्वनिम् ॥ ४॥ नादो ऽतिसूक्ष्मः सूक्ष्मश्च पुष्टो ऽपुष्टश्च कृत्रिमः । इति पञ्चाभिधा धत्ते पञ्चस्थानस्थितः क्रमात् ॥ ५ ॥ नकारं प्राणनामानं दकारमनलं विदुः । जातः प्राणाग्निसंयोगात्तेन नादो ऽभिधीयते ॥६॥
(सु०) एवं श्रुत्यादिकारणं पिण्डं निरूप्य श्रुतिस्वरादि निरूपयितुमिच्छुः प्रकृतानुगुणं मङ्गलमाचरति-चैतन्यमिति । नाद एव ब्रह्म नादब्रह्म, तदुपास्महे । सर्वभूतानां चैतन्यं चैतन्यफलं वा, नादाभावे चेतनानां पाषाणादिभिरचेतनैः को विशेष: स्यात् ? ब्रह्मपक्षे सर्वभूतानां चैतन्यं ज्ञानम् , 'सत्यं ज्ञानमनन्तं ब्रह्म' इति श्रुतेः । जगदात्मना विवृत्तम् , जगति प्रसिद्धत्वान्नादस्य जगद्रूपेण विवृत्ततोच्यते । ब्रह्मपक्षे ऽप्रच्युतप्राच्यावस्थस्यासन्नानाकारावभासो विवर्तः । एवं ब्रह्मैव जगदाकारेण विवर्तत इत्यर्थः। आनन्दं सुखसाधनम् । पक्षे सुखं सुखरूपम् , 'आनन्दो ब्रह्मेति व्यजानात्' इति श्रुतेः । अद्वितीयमनुपमं लोकोत्तरम् | पक्षे सजातीयविजातीयस्वगतभेदशून्यम् । अत्र लिष्टरूपकमलंकारः ॥ किमर्थं नाद उपास्यत इत्यत आह–नादोपासनयेति । ब्रह्मादयो देवा नादोपासनयोपासिता भवन्तीत्यत्र हेतुर्यस्मादेते तदात्मका इति । नादात्मका इत्यर्थः ॥ १, २ ॥
(क०) तस्य नादस्य नित्यत्वमङ्गीकृत्य तदभिव्यक्तिक्रममाहआत्मा विवक्षमाण इत्यादिना । विवक्षमाण इति ब्रुव इच्छायां सनि तस्यार्धधातुकत्वाद् ब्रुवो वच्यादेशे 'पूर्ववत्सनः' इति निमित्तातिदेशत्वादात्मनेपदित्वे रूपम् ॥ नाभ्यादिस्थानेवाविर्भूतस्य नादस्य क्रमेण
Scanned by Gitarth Ganga Research Institute