________________
संगीतरत्नाकरः
[पिण्डोततो ऽपि षोडशदलं सोमचक्रमितीरितम् । दलेषु षोडशस्वस्य कलाः षोडश संस्थिताः ॥ १३६ ।। कृपा क्षमा ऽऽर्जवं धैर्य वैराग्यं धृतिसंमदौ । हास्यं रोमाञ्चनिचयो ध्यानाश्रु स्थिरता ततः ।। १३७ ।। गाम्भीर्यमुद्यमो ऽच्छत्वमौदार्यैकाग्रते क्रमात् । फलान्युद्यन्ति जीवस्य पूर्वादिदलगामिनः ॥ १३८ ॥ चक्रं सहस्रपत्रं तु ब्रह्मरन्ध्रे सुधाधरम् । तत्सुधासारधाराभिरभिवर्धयते तनुम् ॥ १३९ ।। अनाहतदले पूर्व अष्टमे चैकादशे तथा । द्वादशे च स्थितो जीवो गीतादेः सिद्धिमृच्छति ॥ १४० ॥ चतुर्थपष्टदशमैदलैगीतादि नश्यति ।
विशुद्धेरष्टमादीनि दलान्यष्टौ श्रितानि तु ।। १४१ ।। तृतीयदले तमआविर्भावः, मनःसंज्ञकं षड्दलं चक्रं कथयति-तत इति । मनश्चक्रं मनःसंज्ञं चक्रम् । मनःसंज्ञा तु तत्र मनसो ऽवस्थानात् । फलान्याहतत्फलानीति । स्वप्नः सुप्त्यवस्था। रसोपभोगो ऽन्नरसस्योपभोगः । घ्राणं गन्धज्ञानम् । रूपोपलम्भनं दर्शनम् । स्पर्शनं त्वगिन्द्रियकरणकं ज्ञानम् | शब्दबोधः श्रवणम् । सोमाख्यं चक्रं कथयति--तत इति । ततो ऽप्युपरिप्रदेशे। अस्य पूर्वादिदलावस्थानेन जीवस्य फलानि कथयति-कृपेति । कृपा परानुग्रहापेक्षा | क्षमा कोपकारणे सत्यप्यकोपः । आर्जवमवक्रबुद्धित्वम् । धैर्यमस्खलितचेतस्त्वम् । वैराग्यं संसारासारताबुद्धिः । धृतिर्धारणम् । संमदो हर्षः । हास्यादीनि गाम्भीर्यान्तानि प्रसिद्धानि | उद्यम उद्योगः । अच्छत्वमकलुषमनस्त्वम् । औदार्य स्वभावेन दानशूरता। एकाग्रतैकतानत्वम् ॥ चक्रान्तरं कथयति-चक्रमिति । सुधाधरममृतधारकम् । तद्वयापारं कथयति-तदिति । एतेषां चक्राणां तत्तद्दलावस्थाने जीवस्य फलानि कथयन्प्रकृतोपयोगमाहअनाहतेति । अनाहतचक्रस्य दले पत्रे पूर्वे पूर्वदिस्थिते प्रथमे वा ऽष्टमादिषु
Scanned by Gitarth Ganga Research Institute