SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ त्पत्तिः २] प्रथमः स्वरगताध्याय: भूमध्ये त्रिदलं चक्रमाज्ञासंगं फलानि तु ॥ १३३ ॥ आविर्भावाः सत्त्वरजस्तमसां क्रमतो मताः । ततो ऽप्यस्ति मनश्चक्रं पड्दलं तत्फलानि तु ॥ १३४ ॥ स्वप्नो रसोपभोगश्च घ्राणं रूपोपलम्भनम् । स्पर्शनं शब्दवोधश्च पूर्वादिषु दलेष्विति ॥ १३५ ।। सामभक्तिविशेषः। द्वितीयपत्रे स्थितमुद्गीथमुद्गीथोपासनायां चिन्तयेदित्यर्थः । हुंफडिति हवि:प्रदाने ऽव्ययम् । वषडित्यपि । स्वधेति पित्रुद्देशेन हवि:प्रदाने ऽव्ययम् | स्वाहेति देवतोद्देशेन । नम इति नमस्कारे ऽव्ययम् । एतानि तत्तद्दलेषु चिन्तनीयानीत्यर्थः । अमृतं पीयूषम् । तद्दले स्थित आत्मा पीयूषाप्लुत इव सुखितो भवतीत्यर्थः । सप्त स्वराः षड्जादयः षड्जर्षभगांधारमध्यमपञ्चमधैवतनिषादाः। तेषां तानि तानि दलान्युपासनस्थानानि । विषममृतवद्वयाख्येयम् । विषदलस्थ आत्मा दुःखितो भवतीत्यर्थः ॥ ललनाऽऽख्यं चक्र कथयति-ललनाऽऽख्यमिति | घण्टिका ऽवटुः । एतस्य पत्रफलानि कथयति-मद इति । मदो मत्तता। मान उत्कर्षभावनया कार्याकार्यानवेक्षणम् । स्नेहः स्निग्धता | शोको विज्ञातकारणकं दुःखम् । खेदो ऽविज्ञातकारणकं दुःखम् । लुब्धता ऽभिलाषाधिक्यम् । अरतिः सुखसाधनेष्वप्युद्वेगः । संभ्रम आवेगः । ऊर्मयः षडागमशास्त्रप्रसिद्धाः 'बुभुक्षा च पिपासा च शोकमोहौ जरामृती । ऊर्मयः षडिति प्राणबुद्धिदेहेषु संस्थिताः ॥' इति । श्रद्धा ऽऽस्तिक्यबुद्धिः। तोषः प्रसिद्धः। उपरोधिता दाक्षिण्यम् ॥ -१२९-१३२- ॥ (क०) ध्यानाश्रु, ध्यानाज्जातमश्रु ध्यानाश्रु ॥ -१३३-१४४- ॥ (सु०) त्रिदलमाज्ञाचक्रं कथयति-भ्रूमध्य इति । तस्य फलानि कथयति-आविर्भावा इति । प्रथमदले सत्त्वाविर्भावः, द्वितीयदले रजआविर्भावः, Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy