________________
५४
संगीतरत्नाकरः
[पिण्डोकण्ठे ऽस्ति भारतीस्थानं विशुद्धिः षोडशच्छदम् ॥ १२९ ॥ तत्र प्रणव उद्गीथो हुंफड् वषडथ स्वधा । स्वाहा नमो ऽमृतं सप्त स्वराः षड्जादयो विषम् ।। १३० ॥ इति पूर्वादिपत्रस्थे फलान्यात्मनि पोडश । ललनाऽऽख्यं घण्टिकायां चक्रं द्वादशपत्रकम् ।। १३१ ।। मदो मानस्ततः स्नेहः शोकः खेदश्च लुब्धता । अरतिः संभ्रमश्चोमिः श्रद्धातोषोपरोधिताः ॥ १३२ ॥ फलानि ललनाचक्रे स्युः पूर्वादिदलेविति ।
तस्य प्रणाशो निश्चलत्वम् । प्रकट इति प्रकटत्वेन वितर्कस्य विशेषणम् । वितर्क उभयोर्मध्ये ऽन्यतरोपादेयताविचारः । अनुतापिता पश्चात्तापवत्त्वम् । आशेष्टप्राप्तेरभिलाषः । प्रकाश आकारगुप्तेरभावः । चिन्ता विचारमात्रम् । समीहा ऽनिष्टनिवृत्तीच्छा । समतोत्कर्षापकर्षशून्यतया सर्वेषां भावनम् । दम्भो लोकोपसंग्रहार्थमश्रद्धया कर्मानुष्ठानम् । वैकल्यमनबस्थत्वम् । विवेकः सम्यग्विचार्य कार्यकरणम् । अहंकृतिरशक्ये ऽपि कार्ये चिकीर्षाऽध्यवसाय: ॥-१२६-१२८॥
__ (क०) उद्गीथ इति सानो द्वितीयो भागः ; सानो हि पञ्च भागाः-प्रस्तावः प्रथमः, उद्गीथो द्वितीयः, प्रतिहारस्तृतीयः, उपद्रवश्चतुर्थः, निधनः पञ्चम इति । प्रणव इत्युद्गीथस्यादौ प्रयोज्य ओंकारः । घण्टिकायां जिह्वामूले । ऊर्मयो ऽशनायापिपासाशोकमोहजरामरणानि षडूर्मयः ॥ -१२९-१३२. ॥
__ (सु०) विशुद्धिसंज्ञकं चक्रं कथयति-कण्ठ इति । भारतीस्थानम् , भारत्याः सरस्वत्याः स्थानमाश्रयः । तत्र भाविता वाग्देवता वाग्वैभवं ददातीत्यर्थः । एतस्य चक्रस्य पूर्वादिपत्रावस्थितावात्मन: षोडश फलानि कथयतितत्रेति । प्रणव ओंकारः । पूर्वपत्रे प्रणवानुसंधानेनात्मा श्रेयः प्राप्नोति । उद्गीथः
Scanned by Gitarth Ganga Research Institute