________________
-त्पत्ति: २] प्रथमः स्वरगताध्याय:
नाभौ दशदलं चक्रं मणिपूरकसंज्ञितम् ॥ १२४ ॥ सुषुप्तिरत्र तृष्णा स्यादीp पिशुनता तथा । लज्जा भयं घृणा मोहः कषायो ऽथ विपादिता ॥ १२५ ॥ क्रमात्पूर्वादिपत्रे तु स्याद्भानुभवनं च तत् । हृदये ऽनाहतं चक्रं शिवस्य प्रणवाकृतेः ॥ १२६ ।। पूजास्थानं तदिच्छन्ति दलैादशभिर्युतम् । लौल्यप्रणाशः प्रकटो वितको ऽप्यनुतापिता ॥ १२७ ॥ आशा प्रकाशश्चिन्ता च समीहा समता ततः । क्रमेण दम्भो वैकल्यं विवेको ऽहंकृतिस्तथा ॥ १२८ ॥ फलान्येतानि पूर्वादिदलस्थस्यात्मनो जगुः ।
(क०) तत ऊर्ध्व नाभिहृदयकण्ठघण्टिकाभ्रूमध्यललाटकेशमलब्रह्मरन्ध्रप्वष्टसु स्थानेषु क्रमेण मणिपूरकानाहतविशुद्धिललनाऽऽज्ञामन:सोमसहस्रपत्राख्यानामष्टानां चक्राणां तच्चक्रगतदलसंख्यया प्रागाद्यारम्भक्रमेण प्रतिदलं पृथक्फलान्याह-नाभौ दशदलमित्यादिना ॥-१२४-१२८-॥
(सु०) मणिपूरकचक्रं कथयति-नाभाविति । एतस्य पूर्वादिदलानां फलानि कथयति-सुषुप्तिरिति । सुषुप्तिर्बाह्येन्द्रियाणां मनसश्चोपरमावस्था । तृष्णा ऽभिलाषः । ईष्या परगणासहनम् । पिशुनता विद्यमानाविद्यमानपरदोषसचनम । लजाभये प्रसिद्धे । घृणा परदुःखप्रहाणेच्छा । मोहो जाग्रदवस्थायामपि विषयापरिज्ञानम् । कषाय: कलुषाशयत्वम् । विषादः सचिन्तं दुःखम् । तन्मणिपूरकं चक्रं भानोः सूर्याख्यस्य प्राणस्य भवनं स्थानम् ॥ १२५, १२६- ॥ अनाहतं चक्रं कथयति-हृदय इति । शिवस्य प्रणवाकृतेरोंकाराकृते: पूजास्थानमिति; तत्र स्थितं परमेश्वरं ध्यात्वा मनसा पूजयेदित्यर्थः । आत्मनः पूर्वादिद्वादशदलेष्ववस्थानेन फलानि कथयति-लौल्येति । लोलस्य भावो लौल्यम् ,
Scanned by Gitarth Ganga Research Institute