SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ५२ संगीतरत्नाकरः . [पिण्डोस्वाधिष्ठानं लिङ्गमूले षट्पत्रं चक्रमस्य च ।। १२२ ॥ पूर्वादिषु दलेष्वाहुः फलान्येतान्यनुक्रमात् । प्रश्रयः क्रूरता गर्वनाशो मूर्छा ततः परम् ।। १२३ ॥ अवज्ञा स्यादविश्वासः कामशक्तेरिदं गृहम् । निर्गतेन स्ववालाग्रेण सुधाऽऽधारं सहस्रदलचक्रं विभिद्य ततो ऽमृतं द्रावयतीति तथोक्ता ॥ १२०-१२१- ॥ __(सु०) एवमङ्गप्रत्यङ्गान्युक्त्वा चक्राणि वक्तुमुपक्रमते-गुदलिङ्गान्तर इति । गुदलियोरन्तरे मध्य आधारसंज्ञकं चक्रं चतुर्दलपद्माकारमास्ते ॥ तस्य चतुर्णा दलानां फलं कथयति-परम इति । ऐशानदले परमानन्दः, आग्नेयदले सहजानन्दः, नैऋतदले वीरानन्दः, वायव्यदले योगानन्दः । ततश्चाधारकमलस्य विदिस्थितान्येव चत्वारि दलानीति लभ्यते ॥ अस्तीति । कुण्डलिनीसंज्ञिका ब्रह्मशक्तिः, ब्रह्मप्राप्तिकारणत्वात् , आधारपङ्कजे विद्यते । सेयमाब्रह्मरन्धं ब्रह्मरन्ध्रपर्यन्तमृजुतां नीता सत्यमृतप्रदा मोक्षप्रदा ॥१२०-१२१॥ (क०) स्वाधिष्ठानमिति । आधारचक्रादूर्ध्व लिङ्गमूले स्वाधिष्ठानाख्यं षड्दलं द्वितीयं चक्रम् । तस्य पूर्वादिदलेषु क्रमात्प्रश्रयादीनि फलान्याहअस्य चेति । अवज्ञा स्यादिति । धर्मपरो ऽयं निर्देशः ।।-१२२-१२३-॥ (सु०) स्वाधिष्ठानसंज्ञितं चक्रं कथयति-स्वाधिष्ठानमिति । षट्पत्रं षड्दलकमलाकारम् । एतस्य षण्णां दलानां फलानि कथयति-अस्य चेति । प्रश्रयो विनयः पूर्वदिगवस्थितस्य दलस्य फलम् । तत्रावस्थित आत्मा प्रश्रयवान्भवतीत्यर्थः । क्रूरता दुष्टकर्माभिनिवेशः । गर्व आत्मोत्कर्षभावनम् , तस्य नाशः। मूर्छा मोहाधिक्यम् | अवज्ञा ऽवगणना । अविश्वासः सर्वत्र सशङ्कत्वमनाश्वासो वा । इदं स्वाधिष्ठानचक्रं कामोत्पादिकायाः शक्तेर्गृहमाश्रयः ॥ -१२२-१२३- ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy