________________
- त्पत्तिः २]
प्रथमः स्वरगताध्यायः
इति प्रत्यङ्गसंक्षेपो विस्तरस्त्विह तत्त्वतः । अस्मद्विरचितेऽध्यात्मविवेके वीक्ष्यतां बुधैः ॥ ११९ ॥ गुदलिङ्गान्तरे चक्रमाधाराख्यं चतुर्दलम् । परमः सहजस्तद्वदानन्दो वीरपूर्वकः ।। १२० ।। योगानन्दश्च तत्र स्यादेशानादिदले फलम् । अस्ति कुण्डलिनी ब्रह्मशक्तिराधारपङ्कजे ॥ १२१ ॥ आब्रह्मरन्ध्रमृजुतां नीतेयममृतप्रदा ।
५१
द्रवमानं प्रतिज्ञाय कथयति — जलादेरिति । रसस्यान्नरसस्य । 'मज्ज्ञो मज्जाख्यधातोः । विस्तरस्त्वध्यात्मविवेके वीक्ष्यतामित्यनेन सो ऽपि मत्कृतो ग्रन्थो ऽस्तीति कर्ता स्वातिशयं प्रतिपादयति ॥ ११६-११९ ॥
( क ० ) गुदलिङ्गान्तर इति । गुदलिङ्गयोर्मध्ये स्थितस्याधारचक्रस्यैशानादिदलचतुष्टये जन्मकाले जीवस्थित्या परमानन्दादयः फलानि । आधारपङ्कजे तस्मिन्नेवाधारचक्रे । कुण्डलिनीत्यन्वर्थतया सर्परूपिणी ब्रह्मशक्तिः, ब्रह्मणो ऽसङ्गोदासीनस्य परमात्मनः कर्तृत्वाद्युपहिताकारकारिण्यविद्याशक्तिः । सैव मूर्तिमती कुटिलाकारतया कुण्डलिनीत्युच्यते । आब्रह्मरन्ध्रम्, ब्रह्मरन्धं नाम सुषुम्णाया अयं शिरसि सहस्रदलचक्रमध्यगम्, तत्पर्यन्तम् । ऋजुतां नीतेति । गुरूपदिष्टप्रकारेण यमनियमादिक्रमेण वायोरिडापिङ्गलयोः संचारं निरुध्य तेन वायुना सवह्निना ब्रह्मग्रन्थौ सुषुम्णामूलरन्ध्राच्छादिनीं कुण्डलिनीफणामपसार्य तत्र प्रवेशितेन तेन ब्रह्मविष्णुरुद्रमन्थीनां क्रमाद्भेदे सति कुण्डलिनी चात्मवक्रतां विहाय यदा ऋजुतां प्राप्यते । अमृतप्रदेति । तदा कुण्डलिनी स्वार्जवाद्ब्रह्मरन्ध्रवि
1 मज्जा तदाख्यो धातुः.
Scanned by Gitarth Ganga Research Institute