________________
५०
संगीतरत्नाकरः
[पिण्डोअधोगता अपि त्रेधा पृथक्पकाशयस्थिताः । प्रवर्तयन्ति तत्राद्या दश वातादि पूर्ववत् ॥ ११० ।। अन्नं भुक्तं धमन्यो द्वे वहतो ऽम्बुसमाश्रयात् । तोयं मूत्रं बलं द्वे द्वे नारीणामार्तवं त्विमे ।। १११ ।। विमुञ्चतो द्वे स्रोतांसि द्वे स्थूलान्त्रान्विते शकृत् । स्वेदं समर्पयन्त्यष्टौ तिरश्च्यो बहुधा मताः ॥ ११२ ।। रोमकूपेषु सन्त्यासां मुखानि स्वेदमुक्तये । प्रवेशयन्ति चाभ्यङ्गलेपादिप्रभवान्रसान् ॥ ११३ ।। जीवस्थानानि मर्माणि शतं सप्तोत्तरं विदुः । सार्धकोटित्रयं रोम्णां श्मश्रुकेशास्त्रिलक्षकाः ॥ ११४ ॥ स्रोतःसिराश्मश्रुकेशैः सह रोम्णां तु कोटयः । चतुःपञ्चाशदाख्याताः सप्तषष्टया च साध्या ।। ११५ ।। लक्षाणां संहितामानं जलादेरधुनोच्यते । दशाञ्जलि जलं ज्ञेयं रसस्याञ्जलयो नव ।। ११६ ।। रक्तस्याष्टौ पुरीपस्य सप्त स्युः श्लेष्मणस्तु पट् । पित्तस्य पञ्च चत्वारो मूत्रस्याञ्जलयस्त्रयः ॥ ११७ ॥ वसाया मेदसो द्वौ तु मज्ज्ञ एको ऽञ्जलिर्मतः ।। अर्धाञ्जलिः शिरोमज्जा श्लेष्मसारो बलं तथा ॥ ११८ ॥
कथयति-अधोगता इति ॥ १०९- ॥ तासां व्यापारं कथयति—प्रवर्तयन्तीति । बलं वीर्यम् ॥ -११०-१११- || तिरश्चीनां विशेषं कथयति-तिरश्चय इति ॥ -११२, ११३ ॥ मर्माणि परिसंख्याति-जीवस्थानानीति ॥ ११४, ११४- ॥ संहितानां मानं कथयति-सप्तषष्टयेति । संहिता रोमादिसंधिः ।
1 मजा त्वजलिसंमितः.
Scanned by Gitarth Ganga Research Institute