________________
-त्पत्ति: २]
प्रथमः स्वरगताध्यायः दश मूलसिरा ओजोवाहिन्यो हृदयाश्रयाः । द्वयङ्गुलं चागुलदलं यवं यवदलं तथा ॥ १०२ ।। गत्वा द्रुमदलस्येव सीवन्यः प्रतता यदा । भिद्यन्ते तास्तदा सप्त शतानि परिसंख्यया ॥ १०३ ॥ तासु जिह्वास्थिते द्वे द्वे वाग्रसज्ञानकारणे । घ्राणे गन्धवहे द्वे द्वे मेपोन्मेषकृतौ दृशोः ॥ १०४ ॥ श्रोत्रयोः शब्दवाहिन्यौ तासु द्वे शाङ्गिणोदिते । धमन्यो रसवाहिन्यश्चतुर्विंशतिरीरिताः ॥ १०५ ॥ कुल्याभिरिव केदारास्ताभिर्देहो ऽभिवर्धते । एताः प्रतिष्ठिता नाभ्यां चक्रनाभावरा इव ॥ १०६ ।। ऊर्व दश दशाधस्ताच्चतस्रस्तिर्यगायताः । ऊर्ध्वगा हृदयं प्राप्ताः प्रतायन्ते पृथक्त्रिधा ।। १०७॥ वातं पित्तं कर्फ रक्तं रसं द्वे द्वे विमुञ्चतः । शब्दं रूपं रसं गन्धं द्वे द्वे तत्रावगच्छतः ॥ १०८ ॥ दे द्वे च भाषणं घोषं वापं बोधं च रोदनम् । कुर्वाते द्वे नरे शुक्लं स्तन्यं तु स्रवतः स्त्रियाम् ।। १०९ ॥
१०१- ॥ सीवनीनां दृष्टान्तेन संस्थानविशेष दर्शयित्वा संख्यां स्थानं विभागं च कथयति-द्वयगुलमिति । गन्धवहे गन्धज्ञानकारणे ॥ -१०२-१०४- ॥ रसवाहिनीर्धमनीः संख्याय तासां प्रयोजनमाह-धमन्य इति ॥-१०५, १०५-॥ तासां स्थानं संस्थानं च कथयति-एता इति ।। -१०६, १०६- ॥ ऊर्ध्वायता दश, अधआयता दश, तिर्यगायताश्चतस्र इत्युक्तम् ; तत्रोझ्यतानां व्यापारभेदेन त्रैविध्यं कथयति-ऊर्ध्वगा इति ॥ -१०७-१०९ ॥ अधोगतानां त्रैविध्यं
Scanned by Gitarth Ganga Research Institute