SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ४८ [पिण्डो संगीतरत्नाकरः द्वे शते त्वस्थिसंधीनां स्यातामत्र दशोत्तरे ।। ९२ । कोरकाः प्रतरास्तुन्नाः सीवन्यः स्युरुलूखलाः । सामुद्रा मण्डलाः शङ्खावर्ता वायसतुण्डकाः ॥ ९३ ॥ इत्यष्टधा समुद्दिष्टा मुनीन्द्रैरस्थिसंघयः । पेशीस्नायुसिरासंधिसहस्रद्वितयं मतम् ॥ ९४ ॥ नव स्नायुशतानि स्युचतुर्धा स्नायवो मताः । मानवत्यः सुषिरा: कण्डराः पृथुलास्तथा ।। ९५॥ बन्धनैर्बहुभिर्वद्धा भूरिभारक्षमा भवेत् । नौरम्भसि यथा स्नायुशतबद्धा तनुस्तथा ॥ ९६ ॥ पञ्च पेशीशतान्याहुः शरीरस्थानि सूरयः । अधिका विंशतिः स्त्रीणां तत्र स्युः स्तनयोर्दश ॥ ९७ ॥ यौवने ताः प्रवर्धन्ते दश योनौ तु तत्र च । द्वे अन्तः प्रसृते बाह्ये द्वे तिस्रो गर्भमार्गगाः ॥ ९८ ॥ शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्ता ऽत्र तृतीयके । आवर्ते गर्भशय्या ऽस्ति पित्तपकाशयान्तरे ॥ ९९ ॥ रोहिताभिमत्स्यस्य सदृशी तत्र पेशिका | शुक्लार्तत्रप्रवेशिन्यस्तिस्रः प्रच्छादिका मताः ।। १०० ।। सिराधमनिकानां तु लक्षाणि नवविंशतिः । सानि स्युर्नवशती षट्पञ्चाशद्युता तथा ।। १०१ ।। - त्रीणीति ॥ ९१ ॥ अस्थिसंधीसंख्याति - द्वे शते इति ॥ ९२ ॥ आकारविशेषेणास्थिसंधीनामष्टविधत्वं कथयति — कोरका इति ॥ ९३, ९३ ॥ पेशीस्नायुसिरासंधीन्संख्याय स्नायुभेदान्कथयति — पेशीति ॥ - ९४, ९५ ॥ स्नायूनामुपयोगं कथयति — बन्धनैरिति ॥ ९६ ॥ पुंस्त्रीभेदेन पेशी : संख्याति - पश्चेति ॥ ९७ - १०० ॥ सिराधमनिकाः संख्याति - सिरेति ॥ १०१, Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy