SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ -त्पत्ति: २] प्रथमः स्वरगताध्याय: त्वगसृङमांसमेदोऽस्थिमज्जशुक्लानि धातवः । सप्त स्युस्तत्र चोक्ता त्वग्रक्तं जाठरवह्निना ।। ७९ ।। पक्काद्भवेदनरसादेवं रक्तादिभिः परे । वस्वकोशामिना पक्कैर्जन्यन्ते धातवः क्रमात् ।। ८० ।। रक्तश्लेष्मामपित्तानां पकस्य मरुतस्तथा । मूत्रस्य चाश्रयाः सप्त क्रमादाशयसंज्ञकाः ॥ ८१ ।। गर्भाशयो ऽष्टमः स्त्रीणां पित्तपकाशयान्तरे । प्रसन्नाभ्यां कफामुग्भ्यां हृदयं पङ्कजाकृति ॥ ८२ ।। सुपिरं स्यादधोवक्त्रं यकृत्प्लीहान्तरस्थितम् । एतच चेतनस्थानं तदस्मिस्तमसा ऽऽकृते ॥ ८३ ।। निमीलति स्वपित्यात्मा जागर्ति विकसत्यपि । द्वेधा स्वप्नसुपुप्तिभ्यां स्वापो बाह्येन्द्रियाणि चेत् ॥ ८४ ॥ (क०) धातूनुद्दिश्य तेषामुत्पत्तिं दर्शयति-त्वगमृगित्यादिना। तत्र चोक्ता त्वगिति । चकारो भिन्नक्रमः, त्वक्चेति । अयमर्थ:--अत्र धातुत्वेन परिगणिता बाह्या त्वगपि धातुसीमभूतत्वग्लक्षणेनैवोक्तलक्षणेति ॥ ७९-८२- ॥ (सु०) धातून्विभजते-त्वगिति ॥ रक्तादीनामुत्पत्तिप्रकारमाह--रक्तेति। आमो ऽपक्को रसः ॥ स्त्रीणामधिकमाशयं कथयति-गर्भाशय इति । हृदयस्योत्पत्तिप्रकारं संस्थानविशेष स्थानं च कथयति–प्रसन्नाभ्यामिति ॥७९-८२-॥ (क०) एतच्च चेतनस्थानमिति । एतत्पङ्कजाकृत्यधोवक्त्रं सुषिरं हृत्पङ्कजमित्यर्थः । अत्र चशब्दश्चेतनाभिव्यक्तिहेतुभूतस्थानान्तरसमुच्चयार्थः । स्थानान्तराणि तु 'प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' इत्यादिश्रुत्युक्तानि प्राणा Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy