SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ४४ संगीतरत्नाकरः सीमभूताच धातूनां काष्टसारोपमा मताः । आद्या मांसधरा मांसे सिरा धमनयस्तथा ॥ ७७ ॥ नास्रोतांसि रोहन्ति पङ्के पङ्कजकंदवत् । असृङ्मेदःश्लेष्मशकृत्पित्तशुक्लधराः पराः ॥ ७८ ॥ ' इति भूतमयो देहस्तत्र सप्त त्वचो ऽसृजः । • पच्यमानात्प्रजायन्ते क्षीरात्संतानिका इव ॥ भासिनी लोहिनी श्वेता ताम्रा त्वग्वेदिनी तथा । स्याद्रोहिणी मांसधरा सप्तमी परिकीर्तिता ॥ ' [पिण्डो इति । कलाः सप्तेति । रसक्केदो धातुसारविशेष: पूर्वोत्तरधात्वन्तरालस्थः स्नायुश्लेष्मजरायुच्छन्नः कोशा पिकः काष्ठसारोपमः सूक्ष्मरूपत्वात्कलेत्युच्यते । तथा चोक्तम् 6 ' धात्वाशयान्तरक्लेदो विपक्कः स्वं स्वमूप्मणा । श्लेष्मस्नाय्वपराच्छन्नः कलाऽऽख्यः काष्ठसारवत् ॥ इति । स्नाय्वादिच्छन्नत्वादिकं विशेषणं त्वक्कलोभयसाधारणं वेदितव्यम् । तास्त्वचः कलाश्च धातूनन्तरा ऽन्तरा त्वगादिसप्तधातूनां मध्ये मध्ये सीमभूतास्तेषामेव धातूनामसंकीर्णताऽऽपादका इत्यर्थः ॥ आद्येति। आद्या-त्वकला च मांसधरा नाम, पराः षट् त्वचः कलाश्चासृगादिधराः ॥ ७५- ७८ ॥ (सु० ) देहे ऽङ्गप्रत्यङ्गानि विभजते- पिण्डस्येति ॥ धातूनन्तरा ऽन्तरा सप्तानां धातूनां मध्ये मध्य इत्यर्थः ॥ काष्ठसारोपमा कठिना ऽऽद्या मांसधरा त्वक्, अन्यास्त्वकठिना इत्यर्थः । सिराऽऽदयः कुत्रोत्पद्यन्त इत्यत आहमांस इति । धमनयः सिराविशेषाः ॥ स्नायुस्तन्तुसंनिभो मांसबन्धनविशेषः । अन्यास्त्वचः कलाश्च किं धारयन्तीत्यत आह- असृगिति ।। ७५ - ७८ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy