________________
प्रथमः स्वरगताध्यायः
४३
-त्पत्तिः २]
श्मश्रुकेशनखं दन्तानस्थ्याद्यन्यच्च कर्कशम् । वातादिधातुप्रकृतिकॊमादिप्रकृतिस्तथा ॥ ७१ ।। सप्तथा सात्त्विको यश्च ब्रह्मेन्द्रयमविग्रहः । वारुणश्चाथ कौबेर आपों गान्धर्वविग्रहः ।। ७२ ।। राजसः पड्डिधो यश्च पैशाचो राक्षसस्तथा । आसुरः शाकुनः सार्पः प्रेतदेहस्तथा परः ॥ ७३ ।। तामसस्त्रिविधो यश्च पशुमत्स्याध्रिपाकृतिः ।। तेषां लक्ष्माणि न ब्रूमो ग्रन्थविस्तरकातराः ॥ ७४ ॥ पिण्डस्याहुः पडङ्गानि शिरः पादौ करौ तथा। मध्यं चेत्यथ वक्ष्यन्ते प्रत्यङ्गान्यखिलान्यपि ॥ ७५ ॥ त्वचः सप्त कलाः सप्त स्नायुश्लेष्मजरायुभिः ।
छन्नाः कोशाग्निभिः पक्कास्ता धातूनन्तरा ऽन्तरा ॥ ७६ ॥ भूमेरिति । स्थैर्यमत्वरत्वम् । धैर्यमापद्यप्यव्यामूढता। गौरवं पतनासमवायिकारणभूतो गुणः ॥ ७० ॥ अन्यानपि देहभेदान्कथयति-वातादीति । वातादयो वातपित्तश्लेष्माणः । व्योमपवनतेजोऽम्बुभूमयो व्योमादयः ॥ ७१ ॥ सप्तधा सप्तप्रकार: सात्त्विको देहो ब्रह्मादीनाम् , षडियो राजसो देहः पिशाचादीनाम् , त्रिविधस्तामसो देहः पश्वादीनामिति । तेषां लक्षणं किमिति नोक्तमित्यत आह–तेषामिति ॥ ७२-७४ ॥
(क०) जातस्य मातृजादीन्षड्डिधान्भावान्भौतिकस्य देहम्य तत्तद्भूतगुणोपादानं चोक्त्वा तस्य देहस्याङ्गप्रत्यङ्गधातुधमनीचक्रादिप्रपञ्चमाहपिण्डस्याहुरित्यादिना । प्रत्यङ्गानि त्वकलाऽऽदीनि । वक्ष्यन्ते, समनन्तरमेवेत्यर्थः ॥ त्वचः सप्लेति । पच्यमानादसृजो जायमाना भासिन्यादयः सप्त त्वचः । यथोक्तमायुर्वेदे
Scanned by Gitarth Ganga Research Institute