________________
४२
संगीतरत्नाकरः
[पिण्डोद्विसप्ततिसहस्रेषु नाडीरन्ध्रपु संचरन् । मुक्तपीतरसान्सम्यगानयन्देहपुष्टिकृत् ।। ६५ ।। उदानः पादयोरास्ते हस्तयोरङ्गसंधिषु । कर्मास्य देहोन्नयनोत्क्रमणादि प्रकीर्तितम् ।। ६६ ।। त्वगादिधातूनाश्रित्य पञ्च नागादयः स्थिताः । उद्गारादि निमेषादि क्षुतप्रभृति च क्रमात् ॥ ६७ ॥ तन्द्राप्रभृति शोफादि तेषां कर्म प्रकीर्तितम् । अग्नेस्तु लोचनं रूपं पित्तं पाकं प्रकाशताम् ।। ६८ ।। अमर्ष तैक्ष्ण्यमूष्माणमोजस्तेजश्च शूरताम् । मेधावितां तथा ऽऽदत्ते जलात्तु रसनं रसम् ।। ६९ ॥ शैत्यं स्नेहं द्रवं स्वेदं मूत्रादि मृदुतामपि ।
भूमेर्घाणेन्द्रियं गन्धं स्थैर्य धैर्य च गौरवम् ॥ ७० ॥ बहिनिःसारणम् । ग्रहणमन्तःप्रवेशनम् | आदिशब्देन योगशास्त्रप्रसिद्धं नकुलकर्मादि । समान इति । वह्निनोदर्येण भुक्तपीतपाकहेतुना सह संचरन् भुक्तपीतरसान्नाडीरन्ध्रेष्वानयन्देहपुष्टिं करोतीति संबन्धः ॥ ६४, ६५ ॥ उदानस्य स्थानं कर्म च कथयति----उदान इति । देहस्योन्नयनमूर्ध्वनयनम् । उत्क्रमणं मरणम् । आदिशब्देन हिक्काऽऽदि ॥ ६६ ॥ नागादीनां पञ्चानां वायूनां स्थानं कर्म च कथयति-त्वगादीति | त्वचि नागस्यावस्थानम्, शोणिते कूर्मस्य, मांसे कुकरस्य, मेदसि देवदत्तस्य, अस्थि धनंजयस्य ॥ ६७ ॥ तन्द्रा ऽऽलस्यम् । प्रभृतिशब्देन जृम्भणादि । शरीर तेजोगुणान्कथयति-अग्नेस्त्विति । लोचनं चक्षरिन्द्रियम् । पित्तं दोषविशेषः । पाको ऽन्नरसपचनम् | प्रकाशता तेजस्विता ॥ ६८ ॥ अमर्ष: कोपः । तैक्ष्ण्यमसहनत्वम् । ऊष्मा स्वेदोत्पादकस्तापविशेषः । ओजः पूर्वोक्तम् | शूरता निर्भयत्वम् । मेधाविता ऽनुभूतस्याविस्मृतिः । उदकगुणान्कथयति—जलात्त्विति । रसनं रसनेन्द्रियम् ॥ ६९ ॥ स्नेहः स्निग्ध इति व्यवहारकारणभूतो वाग्विशेषगुणः । पृथ्वीगुणान्कथयति--
Scanned by Gitarth Ganga Research Institute