________________
-त्पत्तिः २]
प्रथमः स्वरगताध्यायः प्राणापानौ तथा व्यानसमानोदानसंज्ञकान् । नागं कूर्म च कृकरं देवदत्तं धनंजयम् ।। ५९ ।। दशेति वायुविकृतीस्तथा गृह्णाति लाघवम् । तेषां मुख्यतमः प्राणो नाभिकंदादधः स्थितः ॥ ६० ॥ चरत्यास्ये नासिकयो भौ हृदयपङ्कजे । शब्दोच्चारणनिःश्वासोच्छासकासादिकारणम् ।। ६१ ॥ अपानस्तु गुदे मेढ़े कटीजचोदरेषु च । नाभिकंदे वङ्क्षणयोरूरुजानुनि तिष्ठति ।। ६२ ।। अस्य मूत्रपुरीषादिविसर्गः कर्म कीर्तितः । व्यानो ऽक्षिश्रोत्रगुल्फेषु कट्यां घ्राणे च तिष्ठति ॥ ६३ ।। प्राणापानधृतित्यागग्रहणाद्यस्य कर्म च ।
समानो व्याप्य निखिलं शरीरं वह्निना सह ॥ ६४ ॥ यम् ॥ ५७ ॥ उत्क्षेपणमूर्ध्वाकाशदेशेन सह संयोगजनकं कर्म । अवक्षेपो ऽधराकाशदेशेन सह संयोगजनकं कर्म | आकुञ्चनं स्वाभिमुखानयनम् । गमनं दिग्विशेषानवच्छिन्नाकाशदेशसंयोगजनकं कर्म । प्रसारणं परतो नयनम् । रूक्षता स्निग्धत्वाभावः ॥ २८ ॥ प्राणापानादयो दश वायुविकाराः । लाघवं गुरुत्वाभावः । एतान्गुणान्वायोगृह्णाति शरीरमिति संबन्धः ।। ५९, ५९- ॥ मुख्यस्य प्राणस्य स्थानं व्यापारं च कथयति-तेषामिति । मुख्यतमः प्रधानभूतः, अन्येषामपानादीनां तदनुयायित्वात् । नाभिकंदादध आधारप्रदेशे चरति विचरति ॥-६०, ६१॥ अपानस्य स्थानं कर्म च कथयति- अपानस्त्विति । कटीजङ्घोदरेश्वित्यत्र पञ्चस्वित्यध्याहार्यम् , अन्यथा 'द्वंद्वश्च प्राणितूर्यसेनाऽङ्गानाम्' इत्येकवद्भावप्राप्तेः । संख्योपादाने तु नैकवद्भावः प्राप्नोति, 'कथं चेद्दश दन्तोष्ठाः संख्यावाचीह भेदकः' इति विचारचिन्तामणावुक्तत्वात् ॥ ६२ ॥ मूत्रपुरीषादीति । अत्रादिशब्देन वीर्यदूषिकाऽऽदिग्रहणम् । व्यानस्य स्थानं कर्म च कथयति-व्यान इति ॥ ६३ ॥ प्राणापानयोः पवनयोधृतिर्धारणम् , कुम्भनमिति यावत् । त्यागो
Scanned by Gitarth Ganga Research Institute