________________
संगीतरत्नाकरः
[पिण्डोसत्त्वं रजस्तम इति गुणाः सत्वात्तु साचिकात् । आस्तिक्यशुद्धधर्मेकरुचिप्रभृतयों मताः ॥ ५४ ।। सत्त्वात्तु राजसाद्भावाः कामक्रोधमदादयः । निद्राऽऽलस्यप्रमादार्तिवञ्चनाद्यास्तु तामसात् ।। ५५ ।। प्रसन्नेन्द्रियताऽऽरोग्यानालस्याद्यास्तु सात्म्यजाः।। देहो भूतात्मकस्तस्मादादत्ते तद्गुणानिमान् ॥ ५६ ॥ शब्दं श्रोत्रं सुषिरतां वैविक्त्यं मूक्ष्मवोद्धृताम् । विलं च गगनाद्वायोः स्पर्श च स्पर्शनेन्द्रियम् ॥ ५७ ॥ उत्क्षेपणमवक्षेपाकुश्चने गमनं तथा । प्रसारणमितीमानि पञ्च कर्माणि रूक्षताम् ॥ ५८ ॥
पृथिव्यादिभूतोत्पन्नानीत्याहुः । तृतीयमन्तःकरणं कथयति--सत्त्वाख्यमिति । सत्त्वाख्यं स्वभावाख्यमित्यर्थः । गुणभेदात्सत्त्वरजस्तमोभेदात् ॥ ५३ ॥ गुणाविभज्य कथयति--सत्त्वमिति । सात्त्विकान्तःकरणकार्य कथयति--सत्त्वादिति । आस्तिक्यमस्ति परलोक इति श्रद्धा । शुद्धो निर्मलो यो धर्मस्तत्रैका रुचिः प्रीतिः । प्रभृतिशब्देनाधर्मान्निवृत्तिरुच्यते ॥ ५४ ॥ राजसान्त:करणकार्य कथयति-सत्त्वादिति । राजसाद्रजोगुणप्रधानात् सत्त्वात्सत्त्वाख्यादन्तःकरणात् । तामसान्तःकरणकार्य कथयति-निद्रेति । निद्रा, इन्द्रियाणां बाह्यविषयच्यापारोपरमः मुप्तिः सुषुप्तिर्वा । आलस्यमिष्टसाधनेष्वपि व्यापारेष्वप्रवृत्तिः । प्रमादो निरवधानत्वम् । वञ्चनं प्रतारणम् || ५५ ॥ सात्म्यजान्भावान्कथयतिप्रसन्नेति। आरोग्यं नीरोगत्वम् । देहे भूतगुणान्विभजते-देह इति । भूतात्मकः पञ्चमहाभूतारब्धः। यद्यपि देहस्यैककभूतारब्धत्वमेव, तथा ऽप्युपष्टम्भकत्वमन्येषां भूतानां विद्यत एव ॥ ५६ ॥ सुषिरता सच्छिद्रत्वम् । वैविक्त्यं विविक्तस्य भावो देहस्वभावप्रापकत्वेन पृथगवस्थानम् । सूक्ष्मबोद्धृता दुर्बोधस्याप्यर्थस्यानायासेन परिज्ञानम् | बिलं स्थलं छिदं सुषिरं त्वल्पमिति विवेकः। शरीरे वायुगुणान्कथयति-वायोरिति । स्पर्शो गुणः । स्पर्शनेन्द्रियं त्वगिन्द्रि
Scanned by Gitarth Ganga Research Institute