________________
३९
-त्पत्तिः २]
प्रथमः स्वग्गताध्यायः इच्छा द्वेषः सुखं दुःखं धर्माधर्मी च भावना । प्रयत्नो ज्ञानमायुश्चेन्द्रियाणीत्यात्मजा मताः ॥ ४८ ॥ ज्ञानेन्द्रियाणि श्रवणं स्पर्शनं दर्शनं तथा । रसनं घ्राणमित्याहुः पञ्च तेषां तु गोचराः ।। ४९ ॥ शब्दः स्पर्शस्तथा रूपं रसो गन्ध इति क्रमात् । वाक्कराज्रिगुदोपस्थानाहुः कर्मेन्द्रियाणि तु ॥ ५० ॥ वचनादानगमनविसर्गरतयः क्रमात् । क्रियास्तेषां मनो बुद्धिरित्यन्तःकरणद्वयम् ॥ ५१ ।। सुखं दुःखं च विषयौ विज्ञेयो मनसः क्रिया । स्मृतिभ्रान्तिविकल्पाद्या 'धियो ऽध्यवसितिर्मता ॥ ५२ ।। ब्रह्मयोनीनीन्द्रियाणि भोतिकान्यपरे जगुः । सत्त्वाख्यमन्तःकरणं गुणभेदात्रिधा मतम् ॥ ५३ ।।
(सु०) रसजानात्मजांश्च कथयति-शरीरेति । उपचयः पीनत्वम् । वृद्धिः प्रमाणाधिक्यम् ॥ ४७, ४८ ॥ ज्ञानेन्द्रियाणि तद्विषयांश्च विभजतेज्ञानेन्द्रियाणीति । स्पर्शनं त्वगिन्द्रियम् । दर्शनं चक्षुः । रसनं जिह्वा ॥ ४९ ॥ कमन्द्रियाणि तद्वयापारांश्च कथयति--वाकरेति ॥ ५० ॥ वेदान्तिनां मतमाश्रित्यान्तःकरणद्वयं कथयति-मनो बुद्धिरिति । वाचस्पत्ये 'बुद्धिमनसोश्च करणयोरहमिति प्रख्यानप्रतिभासालम्बनत्वं योगः' इत्युक्तम् ॥ ५१ ॥ बुद्धिमनसोविवेकार्थ व्यापारविशेषं कथयति-सुखमिति । ततश्च सुखदुःखोपलब्धिसाधनं मनः, स्मृतिभ्रान्तिविकल्पादिसाधनं बुद्धिरिति विवेकः । व्यवसितियापारः ॥ ५२ ॥ मतभेदेनेन्द्रियकारणं निरूपयति-ब्रह्मेति । वेदान्तिनस्तु ब्रह्मकारणकानीन्द्रियाणीत्याहुः, सर्वस्यापि प्रपञ्चस्य ब्रह्मविवर्तत्वात् । अथ वा ब्रह्मयोनीन्यभौतिकानीति सांख्या मन्यन्ते । अपरे वैशेषिका भौतिकानि
धियो व्यवसिति०
Scanned by Gitarth Ganga Research Institute