SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ३८ [पिण्डो संगीतरत्नाकर: भावाः स्युः षड़िधास्तस्य मातृजाः पितृजास्तथा । रसजा आत्मजाः सच्वसंभवाः सात्म्यजास्तथा ॥ ४४ ॥ मुद्रवः शोणितं मेदो मज्जा लीहा यकृद् गुदम् । नाभीत्येवमाद्यास्तु भावा मातृभवा मताः ॥ ४५ ॥ उपश्रुलोमकचाः स्नायुसिराधमनयो नखाः । दशनाः शुक्कमित्याद्याः स्थिराः पितृसमुद्भवाः || ४६ ॥ शरीरोपचयो वर्णो वृद्धिः सुप्तिर्वलं स्थितिः' । अलोलुपत्वमुत्साह इत्यादीन्रसजान्विदुः ॥ ४७ ॥ धिष्ठानभूतवामपार्श्वस्थितमांसविशेषवाचकः प्लीहशब्दः । यकृदिति दक्षिणपार्श्वस्थितस्तादृशो मांसविशेषः । स्नायुसिराधमनयः स्नायवः सूक्ष्मनाड्यः. सिरास्ततो ऽपि स्थूलाः, धमनय एरण्डकाण्डवत्स्थूलाः । स्थिराः कठिनाः ॥ ४२-४६॥ (सु० ) प्रसूतिप्रकारं कथयति - क्रियत इति । सूतिमारुतै: प्रसूतिसाधनैर्वायुभिः । रुजद्गात्रः पीडितदेहः । यन्त्रच्छिद्रेण यन्त्राकारेण सूक्ष्मेण योनिरन्ध्रेणेत्यर्थः ॥ जातमात्रस्य स्तन्यपानादिप्रवृत्त्या जीवस्य नित्यत्वं कथयतिजातमात्रस्येति ॥ भावभेदान्कथयति - भावाः स्युरिति । रसो ऽन्नरसः । सत्त्वमन्तःकरणविशेषः । सात्म्यं चिरपरिचयसंस्कारविशेषः || मातृजान्भावान्कश्रयति - मृदव इति । मृदवो मार्दवयुक्ताः प्रदेशा: । प्लीहा यक्रम हृदयस्थितौ मांसखण्ड विशेषौ । हृच्च नाभिश्व हृन्नाभीति समाहारद्वंद्व: । ' द्वंद्वे प्राणितूर्यसेनाऽङ्गानाम्' इत्येकवद्भावः ॥ ४२–४६ ॥ ( क ० ) शरीरोपचय इत्यादिर्ग्रन्थविस्तरकातरा इत्यन्तो ग्रन्थो निगढ़व्याख्यातः || ४७–७४ ॥ 1 धृतिः Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy