________________
३७
-त्पत्तिः २] प्रथमः स्वरगताध्यायः
नाभिस्थनाडी गर्भस्य मात्राहाररसावहा । . कृताञ्जलिर्ललाटे ऽसौ मातृपृष्ठमभि स्थितः ॥ ४० ॥ अध्यास्ते संकुचद्गात्रो गर्भ दक्षिणपार्श्वगः । वामपार्थस्थिता नारी क्लीबं मध्यस्थितं मतम् ।। ४१ ।। क्रियते ऽधःशिराः मूतिमारुतैः प्रवलैस्ततः । निःसार्यते रुजद्दात्री यन्त्रच्छिद्रेण बालकः ।। ४२ ।। जातमात्रस्य तस्याथ प्रवृत्तिः स्तन्यगोचरा ।
प्राग्जन्मबोधसंस्कारादिति जीवस्य नित्यता ।। ४३ ।। तदङ्गमिति कर्मधारयः । खण्डितमङ्गं यथोत्तरक्षणे प्राणसंचारसंस्काराचेष्टमानं दृश्यते तद्वदित्यर्थः ॥ नवमादिष्विति । क्वचिन्नवमे मासे प्रसवः स्यात्कचिदशमे कचिदेकादशे ऽपीति दर्शयितुमादिशब्दग्रहणम् ॥ ३३-४१॥
(सु०) पञ्चमे मासि चित्तं प्रबुद्धम् , ज्ञानवान्भवतीत्यर्थः । विविक्तता पृथक्त्वे सति प्रकटत्वम् ॥ उपचितौ वृद्धि प्राप्तौ । पाल्यन्तरितेति । पाली कर्णपाली, तया ऽन्तरिताभ्यां व्यवहिताभ्यां पाणिभ्यां श्रोत्ररन्ध्रे पिधाय । उद्विग्नो वैराग्यमापन्नः । गर्भशयो गर्भे ध्यानातिशय आत्मानुसंधानम् , तेनान्वितः। यातना: पीडाः। मोक्षोपायं मोक्षसाधनमभिध्यायंश्चिन्तयन् । अभ्यासतत्पर आत्मानुसंधाननिष्ठः । अष्टममासावस्थां कथयति-अष्टम इति । श्रुतिर्बहिःस्थस्य शब्दस्याकणेनं न तु श्रवणेन्द्रियम् , तस्याकाशस्वरूपत्वानित्यत्वेनानुत्पत्तेः । ओजो धातुविशेषः ॥ शुद्धमकलुषम् । ओजो जीविते निमित्तमित्युक्तम् ; तदेव विशदयति-पुनरम्बामिति ॥ गर्भस्य कथं पुष्टिरित्यत आह-मातुरिति । नाडीमनुबद्धा तद्विमिश्रा । मातृपृष्ठमभि लक्षीकृत्य । दक्षिणपार्श्वग इति पुंलिङ्गनिर्देशात्पुमानिति गम्यते ॥ ३३-४१ ॥
(क) सूतिमारुतैरपानाख्यमारुतैः । यन्त्रच्छिद्रेण योनिरन्ध्रेण ।। तस्य जातस्य ॥ मृदव इति । मृदवो मृदुत्वयुक्ताः । प्लीहेति । जीवा
Scanned by Gitarth Ganga Research Institute