________________
संगीतरत्नाकरः
[पिण्डोमोक्षोपायमभिध्यायन्वर्तते ऽभ्यासतत्परः । अष्टमे त्वक्स्मृती' स्यातामोजश्चैतच्च हद्भवम् ।। ३६ ।। शुद्धमापीतरक्तं च निमित्तं जीविते मतम् । पुनरम्बां पुनर्गर्भ चञ्चलं तत्प्रधावति ।। ३७ ॥ अतो जातो ऽष्टमे मासि न जीवत्योजसोज्जितः । किंचित्कालमवस्थानं संस्कारात्खण्डिताङ्गवत् ।। ३८ ।। समयः प्रसवस्य स्यान्मासेषु नवमादिषु ।
मातू रसवहां नाडीमनुवद्धा पराऽभिधा ॥ ३९ ॥ संसारजिहासया पौन:पुन्येनात्मचिन्तनम् || अष्टम इति । त्वक्स्मृती स्यातामिति । यद्यपि त्वक्स्मृती सप्तमे ऽपि स्तः, तथा ऽप्यत्र त्वचः सान्द्रत्वं स्मृतेश्च विकल्पविषयत्वं भवतीत्यर्थः । ओजश्च स्यादित्यूहः । ओजः शुक्लसारः । एतदोजश्च हृद्भवं हृन्निवासं शुद्धं दुष्टवाताद्यनुपहतम् आपीतरक्तमीषत्पीतरक्तवर्ण जीवित प्राणधारणे निमित्तं कारणं मतमित्यन्वयार्थः । तदोजश्चञ्चलमेकत्रानवस्थितं सदम्बां गर्भ च मुहुर्धावति । तदुक्तं वाग्भटाचार्येण - ‘ओजो ऽष्टमे संचरति मातापुत्त्रौ मुहुः क्रमात् ' इति । यतो ऽष्टमे ऽनवस्थितमोजो ऽत इत्यर्थः । अतो ऽष्टमे मासि जातो न जीवतीति न माससाकल्यार्थः ; अपि तु यदौजो गर्भ विहायाम्बां संक्रामेत्तदा जात ओजसोज्झितत्वान्न जीवतीत्यर्थः । यदा पुनरोजो ऽम्बां विहाय गर्भ संक्रामेत्तदा तु प्रसवे ऽम्बा न जीवति ; यदा पुनरोजसः प्रधावनसमय एव प्रसवस्तदा तस्यैकत्राप्यनवस्थानादुभावपि न जीवत इति भावः । ननु लोके क्वचिदोजसोज्झितस्यापि गर्भस्य जन्मानन्तरं किंचित्कालं जीवतो ऽवस्थानं दृश्यते. तत्कथमजीवनमित्याशङ्कय सदृष्टान्तमुपपत्तिमाह-किंचिकालमिति । संस्कारादोजःसंचारसंस्कारात । खण्डिताङ्गवत् , खण्डितं च
त्वक्श्रुती.
Scanned by Gitarth Ganga Research Institute