________________
-त्पत्तिः २]
प्रथमः स्वरगताध्याय: प्रबुद्धं पञ्चमे चित्तं मांसशोणितपुष्टता । पष्टे ऽस्थिस्नायुनखरकेशरोमविविक्तता ॥ ३३ ॥ वलवर्णौ चोपचितौ सप्तमे त्वङ्गपूर्णता । पाल्यन्तरितहस्ताभ्यां श्रोत्ररन्ध्रे पिधाय सः ॥ ३४ ॥ उद्विग्नो गर्भसंवासादास्ते गर्भाशयान्वितः । स्मरन्पूर्वानुभूताः स नानाजातीश्च यातनाः ॥ ३५ ॥
दोहदादभिलाषाद्गर्भ उत्पत्स्यमानो ऽर्थवान्भोगी च भवति । एवमुत्तरत्रापि द्रष्टव्यम् ॥ २८-३२ ।।
(सु०) मातृजमिति । मातृजं मातृसंबन्धि हृदयमस्याभीष्टान्विषयानभिकाङ्क्षति । अथ वा, अस्य गर्भस्य मात्रवयवेषु निष्पन्नं मातृ हृदयमिति संबन्धः कर्तव्यः॥ दौहृदिनीपदं निर्वक्ति–तां चेति। दोहदादाने दोषमाह-अदानादिति। व्यङ्गता काणत्वान्धत्वपशुत्वादिः । आदिशब्देन दुर्बलत्वं निरुत्साहत्वमित्यादि ज्ञातव्यम् ॥ दोहदविशेषेण गर्भ फलविशेषमाह--गर्भ: स्यादिति ॥ माहिष इति । माहिषमांसे दोहदिनी नारी शुकवद्रक्ताक्षमालोहितलोचनं रोमशं च सुतमपत्यं सूते ॥ २८-३२ ॥
(क०) पश्चम इति । प्रबुद्धम् , पूर्व लीनमन्तःकरणं तदा स्पन्दोन्मुखं भवति । पष्ठ इति । नायवः सूक्ष्मसिराः, केशाः शिरोजाः, रोमाण्यङ्गरुहाणि ; बलवी, बलं सत्त्वम् , वर्णो गौरताऽऽदिः । सप्तमे विति । पाल्यन्तरितहस्ताभ्याम् । पालिरूरु:, ‘पालि: म्यश्रयङ्कपङ्क्तिषु' इत्यभिधानात् ; पालिभ्यामूरुभ्यामन्तरितावाच्छादितौ हस्तौ. ताभ्याम् । श्रोत्ररन्ध्रे पिधायेत्यनेनाधोमुखतया संकुचद्गात्रत्वमुक्तम् || उद्विमो भीतः । गर्भाशयान्वितो जरायुप्रस्तदेहः । अभ्यासतत्पर इति । अभ्यासो नामात्र
Scanned by Gitarth Ganga Research Institute