SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ [पिण्डो मंगीतरत्नाकरः मातृजं चास्य हृदयं विषयानभिकाङ्क्षति । अतो मातुर्मनोऽभीष्टं कुर्याद्र्भसमृद्धये ॥ २८ ।। तां च द्विहदयां नारीमाहुदौंहृदिनी बुधाः । अदानादोहदानां स्युर्गर्भस्य व्यङ्गताऽऽदयः ।। २९ ॥ मातुर्यद्विषयालाभस्तदातों जायते सुतः । गर्भः स्यादर्थवान्भोगी दोहदादाजदर्शने ॥ ३० ॥ अलंकारेषु ललितो धर्मिष्ठस्तापसाश्रमे । देवतादर्शने भक्तो हिंस्रो भुजगदर्शने ।। ३१ ॥ गोधाऽशने तु निद्रालुबली गोमांसभक्षणे । माहिषे शुकरक्ताक्षं लोमशं मूयते सुतम् ।। ३२ ।। स्त्रीणां स्तनादि ज्ञातव्यम् , जन्मानन्तरसंभवादिति हेतूक्तेः ॥ चतुर्थे भावा: प्रकटीभवन्तीत्युक्तम् ; तानेव भावान्विभज्य कथयति-पुंसामिति ॥२३ --२७॥ (क०) मातृजं चेति । अस्य गर्भस्य मातृजं मातुर्जातं हृदयम् , चकारान्मातुर्हृदयं च ; तदुभयं यतो विषयानभिकाङ्क्षति, अत इति संबन्धः । अयमर्थः---मातृहृदयसंबद्धस्य गर्भहृदयस्यैव विषयाभिलापित्वात्तदा मातुरभीष्टमवश्यं कर्तव्यं गर्भसमृद्धिकामेनेति ॥ दौहदिनीमिति । द्वयोर्हदययोः समाहारो द्विहृदयम् , तस्य भावो दौहृदमिति पृषोदरादित्वात्साधुः ; तत्संबन्धाद्गर्भो ऽपि दौहृदमित्युच्यते ; तद्दौहृदमस्या अस्तीति दौहृदिनी, ताम् । तदभीष्टाकरणे दोषमाह-अदानादिति । दोहद्रानाम् , दोहदं गर्भिणीमनोरथः, तद्विषया अपि दोहदानि, तेषाम् ॥ तत्तद्दोहदवशादुत्पत्स्यमानस्योत्कर्षापकर्षावाह-गर्भः स्यादित्यादिना । गर्भिण्या राजदर्शने Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy