SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ - त्पत्तिः २] प्रथमः स्वरगताध्यायः 2 अङ्गप्रत्यङ्गभागाश्व सूक्ष्माः स्युर्युगपत्तदा । विहाय श्मश्रुदन्तादीञ्जन्मानन्तरसंभवान्' ।। २५ ।। एषा प्रकृतिरन्या तु विकृतिः संमता सताम् । चतुर्थे व्यक्तता तेषां 'भावानामपि जायते ॥ २६ ॥ पुंसां शौर्यादयो भावा भीरुत्वाद्यास्तु योषिताम् । नपुंसकानां संकीर्णा भवन्तीति प्रचक्षते ॥ २७ ॥ अङ्कुरा इति । अङ्कुरा जायमाना एव कराङ्घ्रिशिरो भवन्तीति भाव्यवयवविवक्षयाऽयं व्यपदेश: सूत्रशाटकन्यायेन । युगपदङ्कुरावस्थायामेव । अङ्गप्रत्यङ्गभागा इति । शिरोऽङ्कुरे ग्रीवानयननासिका कर्णादिभागाः, कराङ्कुर योरं सकूर्परमणिबन्धाङ्गुल्यादिभागाः अङ्घ्रङकुरयोरुरुजानु - जङ्घा गुल्फाङ्गुल्यादिभागाः । सूक्ष्मा अव्यक्तरूपाः । एषा प्रकृतिरिति । जन्मानन्तरसंभवाञ्श्मश्रुदन्तादीन्विहायाङ्कुराद्यवस्थायामेव सूक्ष्मरूपाङ्गप्रत्यङ्गभागोत्पत्तिः प्रकृतिः, जरायुजानां साधारणः स्वभाव इति यावत । अन्या तु विकृतिरिति । अन्या जन्मानन्तरभाविनां श्मश्रुदन्तादीनामङ्गादिसमानकालमेवोत्पत्तिरङ्गादिषु केषांचिदनुत्पत्तिः स्थानव्यत्यासेनोत्पत्तिरगुल्यादिसंख्याया न्यूनाधिकभावश्च । चतुर्थ इति । तेषामङ्गप्रत्यङ्गभागानां व्यक्तता ऽभिव्यक्तता पृथगात्मता । भावानामपि शौर्यादीनामात्मधर्माणां लीनानां व्यक्तता ॥। २३--२७ ।। 5 ३३ (सु० ) प्रतिमासं गर्भस्यावस्थाविशेषमाह --- द्रवत्वमिति । पुंस्त्रीनपुंसकानां क्रमात्प्रागवस्था आह-- द्वितीय इति । पिण्डस्य पेशीसाम्यं पुरुषावस्था, कठिनत्वं स्त्र्यवस्था, अर्बुदत्वमकठिनत्वं नपुंसकावस्था || श्मश्रुदन्तादीत्यादिशब्देन 1 श्मश्रुदन्तादि जन्मानन्तरसंभवात् . भावानामुपजायते. Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy