SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः [पिण्डोजीवकर्मप्रेरितं तद् गर्भमारभते तदा ॥ २२ ।। द्रवत्वं प्रथमे मासि कललाख्यं प्रजायते । द्वितीये तु घनः पिण्डः 'पेशीषद्धनमर्बुदम् ॥ २३ ॥ पुंस्त्रीनपुंसकानां स्युः प्रागवस्थाः क्रमादिमाः। तृतीये त्वङ्कुराः पञ्च कराविशिरसो मताः ॥ २४ ॥ आह-आहुत्येति । आहुत्या यागादौ विहितया ऽऽप्यायितस्तर्पितः, संतुष्ट इति यावत्, भानुभिः किरणैस्तरसः स्वीकृतोदको भानुः सूर्यो मेघे घनरसमुदकं निधत्ते । मेघवृष्टेनोदकेन सह जीवस्यौषध्यादिप्रवेशमाह-तं बलाहक इति । जीवस्यौषधीभ्यो ऽन्नशुक्रादिद्वारा गर्भप्रवेशमाह-ताभ्य इति ॥ १८-२२ ॥ (क०) एवमुक्तप्रकारेणाशयगतस्य गर्भस्य प्रथममासत आरभ्य नवममासपर्यन्तं प्रतिमासमवस्थाभेदान्दर्शयति--द्रवत्वमित्यादिना । कललाख्यं कललमित्याख्या यस्य तत्तथोक्तम् । कललमित्यगृहीतकाठिन्यस्य शुक्लशोणितसंघातस्य द्रवीभाव उच्यते । द्वितीये विति । धनः पिण्डो जनिष्यमाणस्य पुंसः प्रागवस्था, पेशी जनिप्यमाणायाः स्त्रियाः प्रागवस्था, ईषद्घनमर्बुद जनिप्यमाणस्य नपुंसकस्य प्रागवस्था, इति क्रमः । घनः काठिन्ययुक्तः, पेशी चतुरश्रा मांसप्राया, ईपद्घनं घनपेश्युभयसाधारणस्वात्तथोक्तम् , अर्बुदं शाल्मलीमुकुलाकारम् ; यथा ऽऽहु:-- 'चतुरश्रा स्मृता पेशी वृत्तः पिण्डो घनः स्मृतः । शाल्मलीमुकुलाकारमर्बुदं भिषजो विदुः ॥' इति । तृतीये विति । पूर्वोक्तघनपिण्डादेः, कराविशिरसः, करौ चाची च शिरश्च कराङ्घिशिरः, प्राण्यङ्गत्वाद् द्वंद्वैकवद्भावः, तस्य कराविशिरसः । पेशी च धन.. Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy