________________
-त्पत्तिः २] प्रथम: स्वरगताध्यायः
आहुत्या ऽऽप्यायितो ग्रस्तरसो ग्रीष्मे च भानुभिः । भानुर्मेघे घनरसं निधत्ते तं बलाहकः ।। १९ ।। यदा वर्षति वर्षेण सह जीवस्तदा भुवः । वनस्पत्योषधी॥ताः संक्रामत्यविलक्षितः ॥ २० ॥ ताभ्यो ऽन्नं जातमन्नं तत्पुरुपैः शुक्लतां गतम् । शुद्धार्तवाया योषाया निषिक्तं स्मरमन्दिरे ।। २१ ॥ सहातवेन शुद्धं चेद्गर्भाशयगतं भवेत् ।
इति । धूमज्योतिर्मरुतां संघातो ऽभ्रम् , जलवत्तदेव मेघः । आहुत्येति । यजमानैर्मन्त्रपूर्वकं देवतोद्देशेनानौ प्रक्षिप्यमाणं समिदन्नाज्यादि द्रव्यमाहुतिः, तया ऽऽप्यायितः संतर्पितः, ग्रीष्मे भानुभिः किरणैस्तरसो भूमेरात्तसारो भानुः सूर्यः । घनरसं जलम् । भुवो जाता वनस्पत्योपधीरित्यन्वयः । अचाक्षुषत्वादविलक्षितः । ताभ्य ओषधीभ्यः । अन्नम् , अद्यत इत्यन्नमोदनादि । पुरुषैरन्नं भुक्तं तदोदनादि । शुद्धार्तवायाः, आर्तवं शोणितम् 'लाक्षारसशशास्राभं धौतं यच्च विरज्यते' इत्युक्तलक्षणम् , शुद्धमार्तवं यस्यास्तस्याः । शुद्धं चेदिति । शुक्लमपि 'शक्तं शुक्लं गुरु स्निग्धं मधुरं बहुलं बहु । घृतमाक्षिकतैलाभं सद् गर्भाय' इत्युपक्रम्य 'शुद्धं शुद्धार्तवम् ' इत्युक्तत्वाच्छुद्धम् । जीवकर्मेति । तच्च शुक्लमाशयगतत्वमात्रेण गर्भ नारभते, किं तु जीवकर्मप्रेरितं जीवस्योत्पत्स्यमानदेहाभिमानिनः कर्मभिः प्रारब्धकर्मभिः प्रेरितं देहभावानुकूलक्रियया योजितं सदेव गर्भमारभते । अत्र गर्भशब्देन देहोपादानमाशयं गतः शुक्लशोणितसंघात उच्यते ॥१८--२२॥
(सु०) उत्पत्तिप्रकारं कथयति-क्षेत्रज्ञ इति । क्षेत्रज्ञ आत्मा । अभ्रमित्यवर्षकं मेघशकलमुच्यते, मेघ इति वर्षको मेघः । ननु मेघे कथमुदकप्राप्तिरित्यत
Scanned by Gitarth Ganga Research Institute