SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः [पिण्डोतत्र नादोपयोगित्वान्मानुषं देहमुच्यते ॥ १७ ॥ क्षेत्रज्ञः स्थित आकाश आकाशाद्वायुमागतः । वायोधूमं ततश्चाभ्रमभ्रान्मेघे ऽवतिष्ठते ॥ १८ ॥ रेतःशब्देन शोणितमप्युपलक्ष्यते । स्वेदोद्भेदेति । स्पष्टो ऽर्थः । यूकाऽऽदिन इत्यादौ यूका ऽऽदिर्यस्येति तद्गुणसंविज्ञानो बहुव्रीहिः ॥ १५-१६ ॥ (सु०) ब्रह्मा किमसृजदित्यपेक्षायामाह--तदाज्ञयेति । प्रजापतीन् दक्षादीन् । तेभ्यः किमुत्पन्नमित्यपेक्षायामाह---तेभ्यस्त्विति । रेतसः समुत्पन्ना रैतसी। शरीराणां चातुर्विध्यं कथयति-स्वेदोद्रेदेति । किं कस्मादुत्पन्नमित्यपेक्षायामाह-यूकाऽऽदिन इति ॥ १५, १६- ॥ (क) उक्तचतुर्विधदेहमध्ये त्रिविधेषु यूकाऽऽदिदेहेषु लताऽऽदेरचेतनत्वात् , यूकाऽऽदेरतिसूक्ष्मत्वात् , विहगादेः संपूर्णधातुनाड्याद्यभावात् , जरायुजेप्वपि पश्वादिदेहस्य धातुनाड्यादिसंपूर्णतासद्भावे ऽपि तिर्यक्त्वेनोचारणाशक्तेश्च, पारिशेप्यान्मानुषं देहमेव नादोपयोगि ; ततस्तस्यैवोत्पत्तिर्निरूप्यत इत्याह--तत्रेति ।। -१७ ॥ (सु०) तेषु देहेषु मानुषदेहस्यैव विशेषतो निरूपणे कारणमाहतत्रेति ॥ -१७॥ (क०) तस्य मानुषशरीरस्य रैतस्यां सृष्टौ जीवस्याकाशादिपरंपरया गर्भसंक्रमणमाह--क्षेत्रज्ञ इत्यादिना गर्भाशयगतं भवेदित्यन्तेन । क्षेत्रं शरीरम् , तज्जानाति अहमिति वा ममेदमिति वा वेत्तीति क्षेत्रज्ञो जीवः, यदुक्तं भगवता-- 'इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥' Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy