SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ - त्पत्तिः २] प्रथमः स्वरगताध्यायः ब्रह्म ब्रह्माणमसृजत्तस्मै वेदान्प्रदाय च । भौतिकं वेदशब्देभ्यः सर्जयामास तेन तत् ॥ १४ ॥ तदाज्ञयाऽसृजद् ब्रह्मा मनसैव प्रजापतीन् । तेभ्यस्तु रैतसी सृष्टिः शरीराणां निरूप्यते ।। १५ ।। स्वेदोद्भेद जराखण्डहेतुभेदाच्चतुर्विधम् । देहं युकाऽऽदिनः स्वेदादुद्भेदातु लताऽऽदिनः ॥ १६ ॥ जरायोर्मानुषादीनामण्डात विहगादिनः । २९ (सु० ) सृष्टिक्रमं कथयति - आत्मन इति । पञ्चमहाभूतात्मिका विराड्ब्रह्मणस्तनुरित्याह- महाभूतानीति ॥ - १२, १३ ॥ (क० ) ब्रह्म ब्रह्माणमिति । ब्रह्म विरारूपं ब्रह्माणं चतुर्मुखमसृजत् । पुनस्तद्ब्रह्म तस्मै चतुर्मुखाय वेदान् ऋग्वेदादीन्प्रदाय तेन प्रयोज्येन कर्त्रा स्वयं प्रयोजकम्, वेदशब्देभ्यः, वेद्येते अनेन धर्माधर्माविति वेद:, तस्मिञ्शब्दा आकृत्यादिवाचकाः, तेभ्यः कल्पान्तरातीतपदार्थस्मारकत्वेन निमित्तभूतेभ्यः, भौतिकं पञ्चीकृतपञ्चमहाभूतात्मकं देहेन्द्रियादि सर्जयामास, भौतिकस्य सृष्टिं कारितवदित्यर्थः ॥ १४ ॥ (सु० ) ननु हिरण्यगर्भ एव जगतः कर्तेति लोकप्रसिद्धिः, कथमीश्वरः कर्तेत्युच्यते ? अत आह— ब्रह्मेति । ब्रह्मेश्वरो ब्रह्माणं हिरण्यगर्भमसृजत्, तस्मै च वेदान्प्रदाय भौतिकं प्रपञ्चं सर्जयामास सृजन्तं ब्रह्माणं प्रेरयामास । वेदशब्देभ्य इति ल्यलोपे पञ्चमी । ततश्च वेदशब्दान्स्मारयित्वा ऽसर्जयत्, 'यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ' इति श्रुतेः । ततश्च कर्तृत्वं हिरण्यगर्भस्य, प्रयोजककर्तृत्वं परमेश्वरस्येत्यर्थः ॥ १४ ॥ (क०) साक्षात्कर्तुश्चतुर्मुखाद्भौतिकसृष्टेः क्रममाह -- तदाज्ञयेति । तस्य विराज आज्ञया । तेभ्यः प्रजापतिभ्यो रैतसी रेतोविकाररूपा । Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy