________________
४८
संगीतरत्नाकरः
[पिण्डो लीयन्ते हृदि जागर्ति चित्तं स्वप्नस्तदोच्यते । मनश्चेल्लीयते प्राणे सुषुप्तिः स्यात्तदा ऽऽत्मनः ॥ ८५ ॥
स्वमपीतः परात्मानं स्वपित्यात्मेत्यतो मतः । दीनि । चेतनस्थानं चेतनस्य कूटस्थब्रह्मणः स्थानमभिव्यक्तिस्थानम् । अत्र चेतनशब्दो न जीवपरः । कुतः ? श्रुतिविरोधात् , 'अथ यदिदं ब्रह्मपुरम् ' इत्यादिः श्रुतिर्हि 'पुण्डरीकसंनिवेशम्' इत्यत्र पुण्डरीकस्य ब्रह्मस्थानत्वमाह । तथा हि भामत्यां दहराधिकरणे 'अथ यदिदमस्मिन्ब्रह्मपुरं दहरं सूक्ष्मगुहाप्रायं पुण्डरीकसंनिवेशं वेश्म दहरम्' इत्युपक्रम्य ‘इमाः सर्वाः प्रजा अहरहर्ब्रह्म गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति' इति श्रुतिमुदाहृत्य स्वापकाले ऽपि सर्व एवायं विद्वानविद्वांश्च जीवलोको हृत्पुण्डरीकाश्रयं दहराकाशाख्यं ब्रह्मलोकं प्राप्तो ऽप्यनाद्यविद्यातमःपटलपिहितदृष्टितया ब्रह्मभूयमापन्नो ऽहमस्मीति न वेद' इत्यादिना महता संदर्भेण दहरशब्दस्याकाशजीवपरत्वदूषणपूर्वकं ब्रह्मपरत्वप्रतिपादनादत्रापि हृत्पङ्कजाधिष्ठातृत्वेन चंतनं ब्रह्मैवेत्यवगन्तव्यम् । तदस्मिन्नित्यादि । अस्मिश्चेतने ब्रह्मणि तमसा ऽनाद्यविद्यया ऽऽवृतं पिहिते सति, तद्भुदयपङ्कजं यदा निमीलति मुकुलीभवति तदा ऽऽत्मा जीवः स्वपिति निद्राति, तत्पङ्कजं यदा विकसति तदा जीवो जागर्त्यहमिति बुध्यते । अपिश्चार्थे । एतदुक्तं भवतिआत्मनः स्वरूपाज्ञानेन जीवभावे ऽप्यनादिविश्वतैजसप्राज्ञव्यपदेशहेतवो जीवस्य जाग्रत्स्वप्नसुषुप्त्यवस्था भवन्तीति । द्वेधेति । स्वापो निद्रा, तद्विशेषौ स्वप्नसुपुप्ती ॥ -८३-८५- ॥
(सु०) हृदयमेव स्वप्नजागरणयोः कारणमित्याह-एतच्चेति । चेतनस्यात्मनः स्थानम् । अस्मिन्निमीलति सत्यात्मा स्वपिति, विकसति सति जागति । स्वापस्य द्वैविध्यं कथयित्वा तं लक्षयति-द्वेधेति । चित्तं मनः, जागर्ति स्वाग्नि
Scanned by Gitarth Ganga Research Institute