SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ २७ -त्पत्ति: २] प्रथमः स्वरगताध्यायः ते जीवा नात्मनो भिन्ना भिन्नं वा नात्मनो जगत् । शक्त्या सृजन्नभिन्नो ऽसौ सुवर्ण कुण्डलादिव ॥ ११ ॥ सृजत्यविद्ययेत्यन्ये यथा रज्जुर्भुजंगमम् । भिन्नानां जीवानां कथं कर्मबन्ध इत्यत आह–अनादिभिरिति । ते जीवा: प्रतिजन्म तत्तजातियुतं मनुष्यत्वगोत्वादिजातियुक्तं देहमायुरुपभोगं च कर्मव्यापारजं तत्तजात्यनुरूपं प्रपद्यन्ते । ननु जीवानां स्थूलदेहनिबद्धत्वे कथमनेकजन्मप्राप्तिः स्थूलदेहस्य विनाशोपलब्धेरित्यत्राह-तेपामस्त्यपरमिति । आ मोक्षात्, मोक्षं मर्यादीकृत्य । किंविधं लिङ्गशरीरमित्यपेक्षायामाह-सूक्ष्मेति । पञ्च तन्मात्राणि, एकादशेन्द्रियाणि, एवं षोडशकलमित्यर्थः । ननु परमेश्वरस्य जगतः सृष्टिसंहारयोः किं प्रयोजनम् ? अत आह-जीवानामिति । अनादित्वाच्च तयोयिं पर्यनुयोग इत्याह-तदेतदिति । सृष्टिसंहारयोः समाहारः सृष्टिसंहारं प्रवाहानादित्वेन संमतम् ॥ ६-१०॥ (क०) अंशांशिभावनात्मनो जीवानां चाभेदमभिदधत्कार्यकारणभावनात्मनो जगतश्चाभेदं भेदाभेदमतानुसारेण सदृष्टान्तमाह--ते जीवा इति । असावात्मा शक्त्या स्वगतक्रियाशक्त्या जगत्सृजस्तस्मादभिन्नः । विभक्तिविपरिणामेन जगत्पदस्यानुषङ्गः कर्तव्यः । यथा सुवर्णकुण्डलयोस्तादात्म्यं तद्वदित्यर्थः । यथा ऽऽहु: 'कार्यरूपेण नानात्वमभेद: कारणात्मना । हेमात्मना यथा ऽभेदः कुण्डलाद्यात्मना भिदा ॥' इति । मुख्यवेदान्तिमतमवलम्व्याह--सृजतीति । अन्ये वेदान्तिनः । अविद्यया ऽधिष्ठानाज्ञानेन । तत्र दृष्टान्तः-यथा रज्जुर्भुजंगममिति । एतेन प्रपञ्चस्यातत्त्वतो ऽन्यथाभावाद् ब्रह्मविवर्तत्वं दर्शितम् ॥ ११, ११- ।। 1'तेजोवदात्मनो भिन्नाभिन्नया वा ऽऽत्मनो जगत् ।' Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy