________________
२६
संगीतरत्नाकरः
[पिण्डो
भोगस्य पुनः कर्ममिति विशेषणमिह जन्मनि क्रियमाणानि दृष्टफलकानि कृप्यादिकर्माणि प्रति जीवानां कर्तृत्वमपि नियतमेवेति वक्तुम् । तेषा - मस्तीति । तेषां स्थूलशरीरावच्छिन्नानां जीवानाम् अपरं स्थूलशरीरादन्यत्सूक्ष्ममव्यक्तं लिङ्गशरीरमस्ति, ' अङ्गुष्ठमात्रः पुरुषः' इत्यादिश्रुतेः सिद्धमित्यर्थः । तच्च आ मोक्षाच्चरमस्वरूपसाक्षात्कारपर्यन्तम् अक्षयं स्वाविद्यावासनाऽनुच्छेदादविनाशि मतं शास्त्रसिद्धम् । इदं च लिङ्गशरीरं सूक्ष्मभूतेन्द्रियमाणावस्थाऽऽत्मकम् भूतानि पृथिव्यादीनि इन्द्रियाणि चक्षुरादीनि, प्राणाः प्राणादयः पञ्च वायवः, सूक्ष्माणामव्यक्तरूपाणामेतेषामन्तरिन्द्रियेण मनसा संघातत्वेनावस्था Sवस्थानमात्मा स्वरूपं यस्य तत्तथोक्तम् । केचित् 'न कदाचिदनीदृशं जगत्' इति जगत एव प्रवाहरूपेण नित्यत्वमङ्गीकुर्वन्ति ; तन्मतनिरासार्थं जगत्सृष्टिसंहारयोः सप्रयोजनमात्मकर्तृकत्वमाह – जीवानामिति । जीवानामुक्तदेहद्वयाभिमानिनामुपभोगाय सुखदुःखानुभवाय जगद्भूतभौतिकात्मकम् । अजः परमात्मा । स आत्मेत्यन्वयः । परत्वमप्यात्मनो निकृष्टजीवापेक्षयेश्वरत्वमापन्नमित्यर्थः । स आत्मेति पूर्वोक्तं ब्रह्म परामृश्यते । चकारो भिन्नक्रमः । संहरति चेत्यन्वयः । अथ सृष्टस्य जगतः स्थित्यनन्तरम् । विश्रान्त्यै, जीवानामित्यनुषञ्जनीयम्, सृष्टिसंहारयोरुक्तरीत्या जीवार्थत्वात् । जीवानादित्वद्योतनाय तयोः प्रवाहानादित्वमाह -- तदेतदिति । सृष्टिश्च संहारश्च सृष्टिसंहारमिति द्वंद्वैकवद्भावे नपुंसकत्वम् । प्रवाहानादीति । व्यक्तिविवक्षया सादित्वं संतानरूपेणानादित्वमित्यर्थः ॥ ६-१० ॥
"
( सु० ) ननु विषमो दृष्टान्तः, स्फुलिङ्गानां स्थूलत्वसूक्ष्मत्वादिविरुद्धधर्मसंसर्गेण भिन्नत्वात् ; अत आह— दार्वादीति । आदिशब्देनाबिन्धनस्य वैद्युतस्याग्नरुदकोपाधिग्रहणम् । अतश्चौपाधिकः स्फुलिङ्गादौ भेदो न तात्त्विक इत्यर्थः । तेषां जीवानां कर्मनिबद्धत्वं कथयति - ते कर्मभिरिति । ननु ब्रह्मा
Scanned by Gitarth Ganga Research Institute