SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ -त्पत्तिः २] प्रथमः स्वरगताध्यायः सुखदुःखादैः पुण्यपापरूपैनियन्त्रिताः । तत्तज्जातियुतं देहमायुर्भोगं च कर्मजम् ।। ७ ।। प्रतिजन्म प्रपद्यन्ते तेपामस्त्यपरं पुनः । मूक्ष्मं लिङ्गशरीरं तदा मोक्षादक्षयं मतम् ॥ ८ ॥ मूक्ष्मभूतेन्द्रियमाणावस्थाऽऽत्मकमिदं विदुः । जीवानामुपभोगाय जगदेतत्सृजत्यजः ॥ ९ ॥ स आत्मा परमात्मा च विश्रान्त्यै संहरत्यथ । तदेतत्सृष्टिसंहारं प्रवाहानादि संमतम् ।। १० ॥ शादसत्त्वासर्वज्ञत्वदुःखित्वपरिच्छिन्नत्वादिधर्मारोपे जीवव्यपदेश आविधिक इत्यर्थः । तत्र दृष्टान्तमाह-यथा ज्नेरिति । अंशा इति शेषः । तेजो. रूपस्याग्नेरंशा दारुतणमण्याधुपाध्यवच्छिन्ना यथा स्फुलिङ्गा इति व्यपदिश्यन्ते तद्वदिति । ते कर्मभिरिति । ते जीवाः । क्रमेण सुखदुःखप्रदैः पुण्यपापरूपैः कर्मभिः । पुण्यकर्मणां सुखप्रदत्वं तावत् ' एष उ एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते' इति श्रुतेः । पापकर्मणां दुःखप्रदत्वं च 'एष उ एवासाधु कर्म कारयति तं यमधो निनीषते' इति श्रुतेः । अनादिभिरिति । कर्तत्वाद्यभिमानिन आत्मनो जीवत्वोपाधेरविद्याया अनादित्वाज्जीवकर्तकाणां कर्मणामपि तदाकृत्युपरक्तानां व्यक्तीनामेकयोनिता' इत्यादिन्यायेन प्रवाहरूपविवक्षया ऽनादित्वम् । नियन्त्रिता बद्धाः सन्तः । तत्तज्जातियुतं मनुष्यत्वादिजातियुक्तं देहमायुः कर्मजं भोगं च प्रतिजन्म जन्मनि जन्मनि प्रपद्यन्ते प्राप्नुवन्ति । कर्मभिनियन्त्रिता इत्यनेनैव जीवानां देहादिप्राप्तौ देहादीनामप्यविशेषेण कर्मजत्वे सिद्धे, 1.तृणपर्णा Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy