________________
२४
संगीतरत्नाकरः
[पिण्डोअनाद्यविद्योपहिता यथा ऽग्नेविस्फुलिङ्गकाः । दाद्युपाधिसंभिन्नास्ते कर्मभिरनादिभिः ॥ ६ ॥
विकाराः, तै रहितम् । निराकारमाकारशून्यम् । सर्वेश्वरं सकलजगत्कर्त । अनश्वरं नाशरहितम् । सर्वशक्ति इच्छाज्ञानक्रियाभोगशक्तियुक्तम् । सर्वज्ञम् अतीतानागतवर्तमानसकलपदार्थवेदितृ । इत्युपनिषदुक्तं ब्रह्मास्ति । ब्रह्मस्वरूपमुक्त्वा तत्तादात्म्येन जीवांस्तेषां देहसंबन्धं च निरूपयति--तदंशा इति । तस्य ब्रह्मणो इंशा मात्राः ॥ ४, ५ ॥
(सु०) इति देहाभिधानं प्रतिज्ञाय तन्मूलकारणं कथयति-अस्तीति । सर्वदा सर्वत्रापि सत्, नित्यं व्यापकं चेत्यर्थः । ब्रह्म बृहत्त्वाद् बृंहणत्वाद्वा । चिद्विज्ञानरूपम्, आनन्दं सुखस्वरूपम् , 'विज्ञानमानन्दं ब्रह्म' इति श्रुतेः । स्वयंज्योतिः स्वप्रकाशम् , 'तमेव भान्तमनु भाति विश्वं तस्य भासा सर्वमिदं विभाति' इति श्रुतेः । निरञ्जनमविद्यालेपशून्यम् , अविद्याया जीवाश्रयत्वात् । ब्रह्माश्रयाविद्यापक्षे ऽपि स्वाश्रयाव्यामोहकत्वं निरञ्जनपदेनोच्यते । ईश्वरं कर्तुमकर्तुमन्यथा कर्तु वा शक्तम् । लिङ्गं कारणम् । अद्वितीयं सजातीयविजातीयस्वगतभेदशून्यम् । अजमकारणकम् । विभु व्यापकं समर्थ वा । निर्विकारं जायते ऽस्ति वर्धते विपरिणमते ऽपक्षीयते विनश्यतीति यास्कोदितसर्वविकारशून्यम् । निराकारं मूर्त्यनवच्छिन्नम् । सर्वेश्वरं सर्वेषां ब्रह्मादीनामपि शासकम् । अनश्वरमविनाशि | सर्वशक्ति सर्वा सर्वस्य प्रपञ्चस्य कारणं या सा शक्तिर्मायाऽऽख्या विद्यते ऽस्मिन्निति । सर्वज्ञं सर्वविषयसाक्षात्कारवत् । तदंशास्तदभिन्नाः, यथा ऽग्नेविस्फुलिङ्गा अग्नित्वेनाग्नेरभिन्नाः; अथ वा 'अंशो नानाव्यपदेशात्' इति सूत्रोक्तत्वाज्जीवपरमात्मनोरंशांशित्वपक्षमेव स्वीकृत्योक्तम् ॥ ४–५- ॥
(क०) अनाद्यविद्योपहिताः । अनाद्यविद्या मुलाविद्या, अधिष्ठानस्य याथाऽऽत्म्याज्ञानमिति यावत् । तया ऽविद्ययोपहिता अवच्छिन्ना जीवसंज्ञका भवन्ति । सच्चिदानन्दविभुस्वभावस्य वस्तुनो ऽविद्योपाधिव
Scanned by Gitarth Ganga Research Institute