________________
-त्पत्ति: २]
प्रथमः स्वरगताध्याय: अस्ति ब्रह्म चिदानन्दं स्वयंज्योतिर्निरञ्जनम् । ईश्वरं लिङ्गमित्युक्तमद्वितीयमजं विभु ॥ ४ ॥ निर्विकारं निराकारं सर्वेश्वरमनश्वरम् । सर्वशक्ति च सर्वज्ञं तदंशा जीवसंज्ञकाः ॥ ५ ॥
दायः । वचसो वाक्याच्छाब्दो ऽयं व्यवहारः । अतः सर्व जगदपि नादाधीनमित्यर्थः । मतङ्गेनापि बृहद्देश्यामुक्तम्
'न नादेन विना गीतं न नादेन विना स्वराः । न नादेन विना नृत्तं तस्मान्नादात्मकं जगत् ॥ नादरूपः स्मृतो ब्रह्मा नादरूपो जनार्दनः । नादरूपा परा शक्तिर्नादरूपो महेश्वरः ।। यदुक्तं ब्रह्मणः स्थानं ब्रह्मग्रन्थिश्च यः स्मृतः । तन्मध्ये संस्थित: प्राणः प्राणाद्वह्निसमुद्भवः ।। वह्निमारुतसंयोगान्नादः समुपजायते ।
नादादुत्पद्यते बिन्दुस्तत: सर्व' च वाङ्मयम् ॥' इति । नादद्वैविध्यं कथयति-आहत इति । द्विविधो ऽपि नादः पिण्डे प्रकाशते प्रकटीभवति ॥ १-३॥
(क०) तच्च शरीरं जीवकर्मायत्तम् । स च जीवो जिज्ञास्यमानः स्वांशि ब्रह्मापेक्षत इति तस्मिञ्जिज्ञासिते तत्स्वरूपं निरूपयति- अस्ति ब्रह्मेति । चिदानन्दं ज्ञानसुखस्वरूपम् । स्वयंज्योतिः स्वयं प्रकाशमानम् । निरञ्जनं निर्लेपम् । ईश्वरं स्वतन्त्रम् । प्रपञ्चलयनाल्लिङ्गम् । अद्वितीयं स्वसदृशवस्त्वन्तररहितम् । अजं जन्मरहितम् । विभु व्यापकम् । निर्विकारम् , जायते ऽस्ति वर्धते विपरिणमते ऽपक्षीयते विनश्यतीति षड् भाव
०समुद्रमः १० दात्सर्व.
Scanned by Gitarth Ganga Research Institute