________________
[पिण्डो
संगीतरत्नाकरः अथ द्वितीयं पिण्डोत्पत्तिप्रकरणम्
गीतं नादात्मकं वाद्यं नादव्यक्त्या प्रशस्यते । तयानुगतं नृत्तं नादाधीनमतस्त्रयम् ॥१॥ नादेन व्यज्यते वर्णः पदं वर्णात्पदाद्वचः । वचसो व्यवहारो ऽयं नादाधीनमतो जगत् ॥ २॥ आहतो ऽनाहतश्चेति द्विधा नादो निगद्यते । सो ऽयं प्रकाशते पिण्डे तस्मात्पिण्डो ऽभिधीयते ॥ ३ ॥
(क०) ननु गीतनिदानत्वेन स्वरगते नादस्य प्रथमं प्रतिपाद्यत्वमस्तु, किं शरीरनिरूपणेनेत्याशङ्कय, नादमात्रस्य शरीरमन्तरेण प्रकाशाभावादिति परिहरशरीरं निरूपयितुमाह—गीतं नादात्मकमिति । अयमर्थः--न केवलं गीतादित्रयस्य नादाधीनत्वम् , वाङ्मलस्य सर्वलोकव्यवहारस्यापि नादाधीनत्वात्तदाधारः शरीरमादौ सुतरां निरूपणीयमेवेति ॥ १--३ ॥
(सु०) एवं पदार्थसंग्रहमुक्त्वा नादाभिव्यक्तेः स्थानं शरीरं कथयितुं नादं स्तौति-गीतमिति | नादात्मकं नाद आत्मा स्वरूपं यस्य । वाद्यं वीणादि नादाभिव्यक्त्यैव प्रशस्यते रमणीयतामुपैति । नृत्तं तवयानुगतम् , ' अङ्गेनालम्बयेद्गीतम्' इत्युक्तत्वात् । अतः, त्रयं गीतनृत्तवाद्यरूपं नादाधीनं नादापेक्षमित्यर्थः ॥ न केवलं गीतनृत्तवाद्यमेव नादापेक्षम् , अपि तु सर्व जगदित्याहनादेनेति । नादेन ध्वनिना वर्णः ककारादिय॑ज्यते । को ऽयं ध्वनि: ? यो ऽयं वर्णविशेषमप्रतिपद्यमानस्य दूरात्कर्णपथमवतरति मन्दत्वतीवत्वादिभेदं च वर्णेष्वासञ्जयति स ध्वनिरित्युच्यते । वर्णात्पदं घट इत्यादि । पदाद्वचो वाक्यं पदसमु
1.मिदं त्रयम् . ' द्वेधा.
Scanned by Gitarth Ganga Research Institute