________________
२१
-संग्रहः १] प्रथमः स्वरगताध्याय:
अङ्गुलीनां च नियमो भेदा युग्मादयस्तथा । परिवर्तो लयस्तेषां यतयो गीतकानि च ॥ ४६॥ छन्दकादीनि गीतानि तालाङ्गनिचयस्तथा । गीताङ्गानि च वक्ष्यन्ते देशीतालाश्च तत्त्वतः ।। ४७ ॥ निःशङ्कशाह्मदेवेन तालानां प्रत्ययास्तथा । पष्ठे नानाविधं वाद्यमध्याये कथयिष्यते ॥ ४८ ।। सप्तमे नर्तनं नानारसभावाः क्रमेण च ।।
(सु०) पञ्चमाध्यायपदार्थसंग्रहमाचष्टे तालाध्याय इति । मार्गतालाश्चच्चत्पुटादयः । कला निःशब्दक्रियाः । पाता: सशब्दक्रियाः । मार्गाश्चत्वारो ध्रुवादयः । कलाऽष्टकं ध्रुवकादि । परिवर्तः पादभागादेरावृत्तिः । लयस्तालक्रियाऽन्तरालवर्ती कालः । यतिर्लयप्रवृत्तिनियमः । गीतानि मद्रकादीनि सप्त । देशीताला विंशत्युत्तरं शतमादितालादयः। प्रतीयन्ते यैस्तालसंख्यास्वरूपादय इति प्रत्ययाः प्रस्तारनष्टोद्दिष्टादयः ॥ ४४-४७- ॥
(क०) षष्ठे ततादिचतुर्विधवाद्यानामवान्तरभेदेनानेकप्रकारं वाद्यं निगद्यत इत्याह-षष्ठे नानाविधमिति || सप्तमे प्रतिपाद्यानाह-सप्तम इति । नर्तनमिति नाट्यनृत्यनृत्तानां गात्रविक्षेपरूपाणां सामान्यवचनम् । नानारसभावा इति । शृङ्गारादयो नव रसाः । विभावादयः पञ्चविधा भावाः । क्रमेणेति । उद्देशक्रमेणेत्यर्थः ॥ -४८, ४८- ।।
(सु०) षष्ठसप्तमाध्याययोर्वस्तुसंग्रहं कथयति-षष्ठ इति ॥ -४८, ४८- ॥
इति प्रथमे स्वरगताध्याये पदार्थसंग्रहाख्यमादिमं प्रकरणम् ॥ १ ॥
Scanned by Gitarth Ganga Research Institute